SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ S HEACHECHAIRECORE मात्रनिबन्धनः सदिति प्रत्ययस्तहिं स गुणादिषु न भवेत्, तत्र द्रव्यत्वाभावात्, गुणमात्रनिवन्धनत्वे द्रव्यादिषु न त स्यात् , तत्र गुणत्वाभावात्, एवं सर्वत्रापि भावनीयम्, ततोऽस्ति द्रव्यादिभ्यो व्यतिरिक्त महासत्ताख्यं नाम सामान्यं यदशादविशेषेण सर्वत्र संदिति प्रत्यय इति, तथा नवसु द्रव्येषु द्रव्यं द्रव्यमित्यनुगताकारप्रत्ययदर्शनात् द्रव्यत्वं नामावान्तरसामान्यं प्रतिपत्तव्यम् , एवं गुणत्वकर्मत्वगोरवाश्वत्वादीन्यपि, अमूनि चावान्तरसामान्यानि सामान्यविशेषा इत्युच्यन्ते, यत एतानि स्वस्वाधारविशेषेषु अनुगताकारप्रत्ययवचनहेतुत्वात् सामान्यानि विजा तीयेभ्यो व्यावर्त्तमानत्वाच्च विशेषा इति सामान्यविशेषाः, तथा तुल्यजातिगुणक्रियाधाराणां नित्यद्रव्याणां परमाहैण्वाकाशदिगादीनामत्यन्तव्यावृत्तिबुद्धिहेतुभूता विशेषाः,ते च योगिनामेव प्रत्यक्षा अस्मदादीनांत्वनुमेयाः, तथाहि-तुल्य जातिगुणक्रियाधाराः परमाणवो व्यावर्त्तकधर्मसम्बन्धिनो व्यावृत्तिप्रत्ययविषयत्वात् मुक्ताफलाभास्यन्तर्गतचिह्नमुक्का-12 फलवत् , ये चावान्तरविशेषा घटपटादीनामितरेतरव्यावर्तनक्षमास्ते आबालगोपालाङ्गनादिजनानामपि प्रत्यक्षाः, एते च महासामान्यावान्तरसामान्यान्तविशेषावान्तरविशेषाः परस्परविशकलितस्वरूपाः, तथैव प्रतिभासमानत्वात् , तथाहि-न सामान्यग्राहिणि विज्ञाने विशेषावभासोनापि विशेषग्राहिणि सामान्यावभासः ततः परस्परविनिलुण्ठितस्वरूपाः, तथा चात्र प्रयोगः यद्यथाऽवभासते तत्तथाऽभ्युपगन्तव्यं, यथा नीलं नीलतया, अवभासन्ते च परस्परविसकलितस्वरूपाः सामान्यविशेषा इति नैगमः, नन्वेष यदि सामान्यविशेषाभ्युपगमपरस्तहिं यत्सामान्यं तद्रव्यं ये तु विशेषास्ते पर्याया इति परमा-| सार्थतो द्रव्यास्तिकपर्यायास्तिकनयमतावलम्बित्वात् सम्यग्दृष्टिरेव, प्रतिपन्नजिनमतत्वात् , तथाविधसम्यग्जैनसाधुवत्, ALASALA-CA Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy