________________
श्रीआव- णान्तर्भावी, नयान्तरनिरपेक्षस्तु नयो नयः, स च नियमान्मिथ्यादृष्टिरेव सम्पूर्णवस्तुग्राहकत्वाभावादिति, ते च नया श्यक मल-मूलभेदापेक्षया सष्ठ, तथा चाह-नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः शब्दश्च समभिरूढः एवंभूतश्चेति य० वृत्तौ मूलनया इति गाथासमुदायार्थों निगदसिद्धः ॥ अवयवार्थ तु प्रतिनयं नयाभिधाननिरुक्तिद्वारेण प्रतिपादयति
उपोद्घाते
॥३७१॥
गेहिं माणेहिं मिणइत्ती णेगमस्स नेरुत्ती । सेसाणं तु नयाणं लक्खणमिणमो सुणह वोच्छं ॥ ७५५ ॥ न एकं नैकं, नायं नञ्, किन्तु न इति 'अन् स्वरे' इति न भवति, प्रभूतानीत्यर्थः, ततो नैकैः - प्रभूतसङ्ख्याकैर्मानैः - | महासामान्यावान्तर सामान्यविशेषादिविषयैः प्रमाणैर्मिमीते - परिच्छिनत्ति वस्तुजातमिति नैगमः, पृषोदरादय इतीष्टरूपनिष्पत्तिः, तथा चाह - 'इति' इयं नैगमस्य निरुक्तिः - निर्वचनं, उपलक्षणमेतत् तेन अन्यथाऽपि नैगम शब्दव्युत्पत्तिः परिभावनीया, तद्यथा - निश्चितो गमो निगमः- परस्परविविक्तसामान्यादिवस्तुग्रहणं स एव प्रज्ञादेराकृतिगणतया स्वार्थिकाण्प्रत्यय विधानात् नैगमः, यदिवा निगम्यन्ते परिच्छिद्यते इति निगमास्तेषु भवो योऽभिप्रायो नियतपरिच्छेदरूपः स नैगमः, अथवा गमाः- पन्थानो नैके गमा यस्य स नैगमः, पृषोदरादित्वात् ककारस्य लोपः, बहुविधवस्त्वभ्युपगमपर इत्यर्थः तथाहि - एष सत्तालक्षणं महासामान्यम्, अवान्तरसामान्यानि च द्रव्यत्वगुणत्व कर्म्मत्वादीनि, तथा अन्त्यान् विशेषान् सकलासाधारणरूपान् अवान्तरविशेषांश्च पररूपव्यावर्त्तनक्षमान् सामान्यादत्यन्तविनिर्लुठितस्वरूपान् प्रतिपद्यते, यतोऽसावेवमाह-संविन्निष्ठाः किल पदार्थव्यवस्थितयः, तत्र सर्वेष्वपि पदार्थेषु द्रव्यादिरूपेषु सत्सदित्यविशेषेण प्रत्यय उपजाधते, वचनं च, न चैते तथारूपे प्रत्ययवचने द्रव्यादिमात्र निबन्धने, द्रव्यादीनामसर्वव्यापकत्वात्, तथाहि यदि द्रव्य
Jain Education International
For Private & Personal Use Only
नैगमस्वरूपं
॥३७१ ॥
www.jainelibrary.org