SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ % % % % RA%ARCRA%AAM+ गेकान्तविषयः स्यादि" ति, अत्र टीकाकारेण व्याख्या कृता-नयोऽपि-नयप्रतिपादकमपि वाक्यं, न केवलं प्रमाणवाक्यमित्यपिशब्दार्थः, तथैव-स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषयः स्यात्, यथा स्यादस्त्येव जीव इति, स्यात्सदप्रयोगाभावे तु मिथ्यकान्तगोचरतया दुर्नय एव स्यादिति, तदेतदयुक्त, प्रमाणनयविभागाभावप्रसक्तः, तथाहि-स्थाजीव एवेति किल प्रमाणवाक्यं, स्यादस्त्येव जीव इति नयवाक्यं, एतच्च द्वयमपि लघीयस्त्रय्यलङ्कारे साक्षादकलनोदाहृतं, अत्र चोभयत्राप्यविशेषः, तथाहि-स्याज्जीव एवेत्यत्र जीवशब्देन प्राणधारणनिबन्धना जीवशब्दवाच्यताप्रतिपत्तिः, अस्तीत्यनेनोद्भूताकारशब्दप्रयोगादजीवशब्दवाच्यतानिषेधः, स्याच्छब्दप्रयोगतोऽसाधारणसाधारणधर्माक्षेपः, स्यादस्त्येव जीव इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपत्तिरस्तीत्यनेनोद्भूतविवक्षितास्तित्वावगतिः एवकारप्रयोगात्तु यदाशङ्कितं सकलेऽपि जगति जीवस्य नास्तित्वं तद्व्यवच्छेदः, स्यात्पदप्रयोगाद् साधारणासाधारणप्रतिपत्तिरित्युभयत्राप्यविशेष एव, तथा च सिद्धव्याख्याता न्यायावतारविवृतौ स्यादस्त्येव जीव इति प्रमाणवाक्यमुपन्यस्तवान् , तथा च तद्गतो ग्रन्थः “यदा तु प्रमाणब्यापारमविकलं परामृश्य प्रतिपादयितुमभिप्रयन्ति तदा अङ्गीकृतगुणप्रधानभावाऽशेषधर्मसूचककथ* चित्पर्यायस्याच्छन्दविभूषितया सावधारणया च वाचास्यादस्त्येव जीव इत्यादिकया (वदेत्त) तोऽयं स्याच्छब्दसंसूचिताभ्यन्तरीभूतानन्तधर्मकस्य साक्षादुपन्यस्तजीवशब्दक्रियाभ्यां प्रधानीकृतात्मभावस्यावधारणव्यवच्छिन्नतदसम्भवस्य वस्तुनः सन्दर्शकत्वात् सकलादेश इत्युच्यते, प्रमाणप्रतिपन्नसम्पूर्णार्थकथनमिति यावदि"त्यादि, तस्मादस्मदुकैव प्रमाणनयव्यवस्था समीचीना, यथा यो नाम नयो नयान्तरसापेक्षः परमार्थतः स्यात्पदप्रयोगमभिलषन् सम्पूर्ण वस्तु गहातीति प्रमा -% ***404 * Jain Education in For Private & Personal use only jainelibrary.org |
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy