SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक मलय. वृत्ती उपोद्घाते स. ॥३७०॥ प्यजीवानुगतमजीवसाधारणं वा तथालक्षणमाशझोत, तथा च जीवेतरविभागपरिज्ञानाभावः, ततो यथा सम्यग्वादि- प्रमाणन त्वमिच्छता सर्वत्र स्यात्पदप्रयोगः साक्षात् गम्यो वाऽनुश्रियते तथा यथायोगमवधारणविधिरपि, अन्यथा यथावस्थितव- विचार स्तुतत्त्वप्रतिपत्त्यनुपपत्तेः,न चावधारणविधिः सिद्धान्ते नानुमत इति वक्तव्यं, तत्र तत्र प्रदेशेऽनेकशोऽवधारणविधिदर्शनात्, तथाहि-"किमियं भंते ! कालोत्ति पवुच्चइ १, गोयमा ! जीवा चेव अजीवा चेव"त्ति, स्थानाङ्गेऽप्युक्तम्-"जदत्थिं च णं लोएतं सर्व दुप्पडोयारं, तंजहा-जीवा चेव अजीवा चेव” तथा “जह चेव उ मोक्खफला, आणा आराहिया जिणिदाणमित्यादि, या त्ववधारणी भाषा प्रवचने निषिध्यते सा कचित् तथारूपवस्तुतत्त्वनिर्णयाभावात् कचिदेकान्तप्रतिपादिका वा, न तु सम्यगयथावस्थितवस्तुतत्त्वनिर्णये स्यात्पदप्रयोगावस्थायामिति । दिगम्बरी त्वियं प्रमाणनयपरिभाषा-सम्पूर्ण-4 वस्तुकथनं प्रमाणवाक्यं, यथा स्याज्जीवः स्याद्धर्मास्तिकाय इत्यादि, वस्त्वेकदेशकथनं नयवादः, तत्र यो नाम नयो नयान्तरसापेक्षः स नय इति वा सुनय इति वोच्यते, यस्तु नयान्तरनिरपेक्षः स दुर्नयो नयाभास इति, तथा चाहाकलङ्क:"मेदाभेदात्मके ज्ञेये, भेदाभेदाभिसन्धयः । यतोऽपेक्षानपेक्षाभ्यां, लक्ष्यन्ते नयदुर्नयाः॥१॥" अस्याः कारिकाया लेशतो व्याख्या-भेदो-विशेषोऽभेदः-सामान्यं तदात्मके, सामान्यविशेषात्मके इत्यर्थः, ज्ञेये-प्रमाणपरिच्छेद्ये वस्तुनि ये मेदामेदाभिसन्धयः-सामान्यविशेषविषयाः पुरुषाभिप्रायाः अपेक्षानपेक्षाभ्यां लक्ष्यन्ते ते यथासङ्ख्यं नयदुर्नया ज्ञातव्याः, किमु .॥ कं भवति ?-विशेषसाकाङ्क: सामान्यग्राहको वाऽभिप्रायः सामान्यसापेक्षो विशेषग्राहको वा नयः, इतरेतराकानरहितस्तु दुर्नयः, नयचिन्तायामपि ते दिगम्बराः स्वात्पदप्रयोगमिच्छन्ति, तथा चाकलङ्कएव प्राह-"नयोऽपि तथैव सम्य 4 +% % %AX Jain Education in For Private & Personal use only Hos.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy