SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ICIA -1- सर्वत्र स्यात्पदप्रयोगानुसरणं तर्हि मूलत एवापागमदवधारणविधि, परस्पर विरोधात, तथाहि-अवधारणमन्यनिषेपपरं |स्थाद्वादस्त्वन्यसंग्रहणशील इति, तदयुक्त, सम्यक् तत्त्वापरिज्ञानात्, स्यात्पदप्रयोगो हि विवक्षितवस्त्वनुयायिधर्मान्तर-II सन्तहणशीलः,अवधारणविधिस्तु तत्तदाशङ्कितान्ययोगव्यवच्छेदादिफलः, तथाहि-ज्ञानदर्शनवीर्यमुखोपेतः किं जीवो भवति | किंवा नेत्याशङ्कायां प्रयुज्यते-स्थाजीव एव, अत्र जीवशब्देन प्राणधारणनिबन्धनंजीवशब्दवाच्यत्वमभिधीयते, एवकारेण यदाशङ्कितं परेण जीवशब्दवाच्यत्वं तस्य निषेधः, स्यास्पदप्रयोगात्तु ये ज्ञानदर्शनसुखादिरूपा असाधारणा ये चामूर्तदत्वासङ्ख्यातप्रदेशसूक्ष्मत्वलक्षणा धर्मा धर्माधर्मगगनास्तिकायपुद्गलैःसाधारणाः येऽपि च सत्त्वप्रमेयत्वमित्वगुणित्वा दयःसर्वपदार्थैः साधारणास्ते सर्वेऽपि प्रतीयन्ते,यदा तु ज्ञानदर्चनादिलक्षणोजीवः किंवाऽन्यलक्षण इत्याशङ्का तदैवमवधारणविधिः-स्यात् ज्ञानादिलक्षण एव जीवः, अत्र जीवशब्देन जीवशब्दवाच्यतामात्र प्रतीयते, ज्ञानादिलक्षण एवेत्यन्यलक्षणब्युदासः, स्यात्पदप्रयोगात्तु साधारणासाधारणधर्मपरिग्रहः, यदा तु जगति जीवोऽस्ति किं वा नेत्यसम्भवाशङ्का तदैवमवधारणं-स्थादस्त्येव जीवः, अत्रापि जीवशब्देनजीवशब्दवाच्यताऽधिगतिः, स्यात्पदप्रयोगात् साधारणासाधारणधर्मपरि. ग्रहः, अस्त्यवेत्यवधारणादभावाशङ्काव्यवच्छेदः, एवमन्यत्रापि साक्षात् गम्यमानतया वा स्यात्पदप्रयोगपुरःसरं यथायोगमवधारणविधिः सम्यक्प्रवचनार्थ जानानेन प्रयोक्तव्यः, अवधारणाभावे तु जीवादिवस्तुतत्त्वव्यवस्थाविलोपप्रसङ्गः, तथाहि-यद्यन्यव्यवच्छेदेन ज्ञानदर्शनोपयोगलक्षणो जीव एवेति नावधार्यते तहिं अजीवोऽपि तल्लक्षणः स्यादिति जीवाजीवव्यवस्थाविलोपः, तथा यदि ज्ञानदर्शनोपयोगलक्षण एव जीव इत्ययोगव्यवच्छेदो नाभ्युपगम्येत ततोऽन्यत्किम MC-%A4%AMACROCE - % %* * % Jain Education Internations For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy