________________
CSCALAMMA
जोइसियभवणवंतरदेवीओ दक्खिणेण पविसे । चिट्ठति दक्षिणावरदिसिम्मि तिगुणं जिणं काउं ॥११॥ अवरेण भवणवासीवंतरजोइससुरा य अतिगंतुं । अवरुत्तरदिसिभाए चिट्ठति जिणं नमंसित्ता ॥ १९८॥ समहिंदा कप्पसुरा राया नरनारिओ उईणेणं । पविसित्ता पुछुत्तरदिसीइ चिटुंति पंजलिया ॥११९॥ इक्किक्काइ दिसाए तिगं तिगं होइ संनिविटुंतु। आइचरिमे विमिस्सा थीपुरिसा सेस पत्तेअं॥५६१ ॥ संयता वैमानिकस्त्रियः संयत्यः पूर्वेण-पूर्वद्वारेण प्रविश्य वीरं प्रदक्षिणं कृत्वा पूर्वदक्षिणे दिग्भागे तिष्ठन्ति । ज्योतिकभवनब्यन्तरदेव्यो दक्षिणेन द्वारेण प्रविश्य त्रिगुणं प्रदक्षिणं जिनं कृत्वा दक्षिणापरदिग्भागे पूर्वक्रमेण तिष्ठन्ति । अपरेण-पश्चिमद्वारेण भवनवासिनो व्यन्तरा ज्योतिष्कसुराश्च अतिगत्य-प्रविश्य जिनं नमस्कृत्यापरोचरदिग्भागे, वायव्यकोणे इत्यर्थः, पूर्वक्रमेण तिष्ठन्ति ॥समहेन्द्रा-महर्द्धिभिरिन्द्रः सहिताः कल्पसुरा:-कल्पोपपन्नदेवाः राजानः नराः सामान्यपुरुषा नार्यश्च उदीच्येन-उत्तरेण द्वारेण प्रविश्य भगवन्तं प्रणम्य प्राञ्जलयः पूर्वोत्तरदिग्भागे तिष्ठन्ति । अभिहितार्थोपसमाह-एकैकस्यां पूर्वदक्षिणादिकायां दिशि त्रिकं त्रिकं भवति सन्निविष्ट, तद्यथा-पूर्वदक्षिणस्यां संयतवैमानिकदेवीश्रमणीरूपं, दक्षिणापरस्यां भवनवासिज्योतिष्कव्यन्तरदेवीरूपं, अपरोत्तरस्यां भवनपतिज्योतिष्कव्यन्तरदेवरूपं, उत्तरपूर्वस्यां वैमानिकमनुष्यमनुष्यस्त्रीरूपमिति, आदिमे च विके-पूर्वदक्षिणदिग्गते चरमे च त्रिके-पूर्वोत्तरदिग्गते विमिश्रा भवन्ति, स्त्रियः पुरुषाश्च तिष्ठन्तीति भावः, शेषे-त्रिकद्वये प्रत्येकं भवति, अपरादक्षिणे दिग्भागे केवला:खिय एव अपरोत्तरे च दिग्भागे केवलाः पुरुषा एवेति भावार्थः। तेषां चत्वं स्थितानां देवनराणामियं मयांदा,
www.jainelibrary.org
For Private & Personal use only
Jain Education Interation