________________
आवश्यके 181 केवलिनस्त्रिगुणं-त्रिः प्रदक्षिणीकृत्य जिनं-तीर्थकर तीर्थप्रणामं च कृत्वा तस्य तीर्थस्य-गणधरस्य मार्गतः पृष्ठतो, निषी-14 श्रीमलय- दन्ति क्रियाध्याहारः, 'मणमाइवी'त्यादि, मनआदयोऽपि-मनःपर्यायज्ञान्यवधिज्ञनिचतुर्दश पूर्वधरा यावन्नवपूर्वधरसमवसरणे खेलौषध्यादिनिरतिशयसंयतवैमानिकदेवीश्रमण्यस्तथा ज्योतिष्कभवनपतिव्यन्तरदेव्यः पूर्वक्रमेण तीर्थकरादीन् नमन्त्यः
ब्रजन्ति स्वस्थानं स्वस्थानं, स्वं खं स्थानमित्यर्थः, भावार्थः प्रागेवोक्तः। ॥३०॥ भवणवई-जोइसिया बोदवा बाणमंतरसुरा य । वेमाणिया य मणुआ पयाहिणं जं च निस्साए ॥ ५३०॥
भवनपतयो ज्योतिष्का व्यन्तरसुरा एते पश्चिमद्वारेण प्रविश्य भगवन्तं त्रिः प्रदक्षिणीकृत्य वन्दित्वा नमस्तीर्थाय नमः केवलिम्बः नमोऽतिशायिभ्यः नमः शेषसाधुभ्य इति भणित्वा यथोपन्यासमुत्तरपश्चिमे दिग्भागे निषीदन्ति, तद्यथा-भवनपतीनां पृष्ठतो ज्योतिष्कास्तेषामपि पृष्ठतो व्यन्तरा इति, तथा वैमानिका मनुष्याश्चशब्दात् स्त्रियश्च, अस्य चशब्दस्य व्यवहित उपन्यासः, किं, 'पयाहिणीति उत्तरद्वारेण प्रविश्य प्रदक्षिणा कृत्वा तीर्थंकरादीनभिवन्ध उत्तरपूर्वे दिग्भागे यथोपन्यासं निवीदन्ति, तद्यथा-वैमानिकानां पृष्ठतो मनुष्यास्तेषामपि पृष्ठतो मनुष्यस्त्रियः, इहैवं सम्पदायः-देव्यः सर्वा एव न निषीदन्ति, देवा मनुष्या मनुष्यस्त्रियश्च निषीदन्ति, तथा विवृतं, 'जं च निस्साए यः परिवा-2 रोयं च निश्रां कृत्वा समायातः स तत्पार्च एव तिष्ठति, नान्यत्र ॥ साम्प्रतमभिहितमेवार्थ भाष्यकारः पूर्वद्वारादिप्रवे-18 शविशिष्टं स्पष्टतरं प्रतिपादयति-.. संजय वेमाणित्वी संजइ पुरण पविसि वीरं । काउं पयाहिणं पुषदक्खिणे ठंति दिसिमाए॥११६ ॥
BARSANKRA
NARAYANAKACK
Jain Education International
For Private & Personal use only
www.jainelibrary.org