________________
|वीरिय'ति वीर्य-लं, तच्च जीवस्य लक्षणं, तथाहि-तेन जीवो लक्ष्यते, अथवा सामर्थ्य यत् यस्य वस्तुनश्चेतनस्या चेतनस्य वा तवीर्य, तच्च विचित्ररूपं, तदेव लक्षणं पदार्थस्वरूपावच्छेदहेतुत्वात् वीर्यलक्षणम् , आह च भाष्यकार:विरियंति पलं जीवस्स लक्खणं जं च जस्स सामत्थं । दबस्स चित्तरूवं जह विरिय महोसहाईणं ॥१॥ | तथा भावानामौदयिकादीनां लक्षणं भावलक्षणं,यथा उदयलक्षण औदयिकः,उपशमलक्षणस्त्वौपशमिकः, अनुत्पत्तिलक्षणः क्षायिका,मिश्रलक्षणःक्षायोपशमिका,परिणामलक्षणः पारिणामिकः,संयोगलक्षणःसान्निपातिक इति, अथवा भावाश्च ते लक्षणं चात्मन इति भावलक्षणं, तत्र सामायिकस्य जीवगुणरूपस्य क्षयोपशमोपशमक्षयस्वभावत्वाद्वा लक्षणता, उपसंहारमाहलक्षणमेतत् त्रयोदशभेदं समासतः-सङ्केपेण भणितम्, अथवापि भावस्य सामायिकस्य लक्षणं, अनुस्वारलोपोज्त्र द्रष्टव्यः, चतुर्विधं श्रद्धानादि ॥ एतदेव प्रतिदिदर्शयिषुराहसद्दहण जाणणा खलु विरई मीसा य लक्खणं कहइ । तेऽवि निसामंति तहा चउलक्खणसंजुअंचेव ॥७५३॥
इह सामायिक चतुर्विधं भवति, तद्यथा-सम्यक्त्वसामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिक मच,अस्य यथायोगंलक्षणं, 'सद्दहण'ति श्रद्धानं,लक्षणमिति योगः, सम्यक्त्वसामायिकस्य, 'जाणण'त्ति ज्ञानं ज्ञा संवित्तिरि
त्यर्थः सा च लक्षणं श्रुतसामायिकस्य, खलुशब्दोनिश्चयतः परस्परसापेक्षत्वविशेषणार्थः, तथा 'विरह'इति विरमणं विरतिःसर्वसावद्ययोगविनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणं, 'मीसा ये' इति मिश्रा-विरत्यविरतिः, सा च चारित्राचारित्रसामायिकस्य लक्षणं, कथयतीत्यनेन स्वमनीषिकापोहमाह, भगवान् जिन एवं कथयति, तस्य च कथयतस्तेऽपि गणधरादयो ।
tha n-MARRECRUAR
-
Jain Education Intern
For Private & Personal use only
k
ainelibrary.org