SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्री आव श्यक मल य० वृत्तौ उपोद्घाते ॥૨૬॥ मरकतादि च भवति, उत्पलमपि नीलमनीलं च शुक्लादिरूपमिति, उभयपदाव्याहतं यथा जीवः सचेतनः, जीवो नियमात् सचेतनः, चेतनाऽपि जीवस्यैवेत्युभयपदाव्यभिचारः, उक्तञ्च - "रूवी घडोत्ति चूतो दुमोत्ति नीलुप्पलं च लोयम्मि । जीवो सचेयणोत्ति य भंगचउक्कं फुडं सिद्धं ॥ १ ॥ ( वि. २१६० )” तथा 'णाणत्ति'त्ति, नानाभावो - नानाविशेषः सा लक्षणं नानातालक्षणं, सा च नानाता चतुर्धा, द्रव्यक्षेत्र कालभावभेदात्, तत्र द्रव्यतो नानाता द्विधा- तद्रव्यनानाता अन्यद्रव्यनानाता च तद्द्रव्यनानाता यथा परमाणूनां परस्परतो भिन्नता, अन्यद्रव्यनानाता यथा परमाणो णुकादिभ्यो भिन्नता, क्षेत्रतोऽपि नानाता द्विधा - तत्क्षेत्रनानाता अतत्क्षेत्रनानाता च तत्क्षेत्रनानाता यथा एकप्रदेशावगाढानां परस्परभिन्नता, अतत्क्षेत्रनानाता यथा एकप्रदेशावगाढस्य द्विदेशावगाढादिभ्यो भिन्नता, एवमेकादिसमयस्थित्येकादिगुणयुक्तानां तदतन्नानाता वाच्या, इयं च लक्षणं, पदार्थस्वरूपावस्थापकत्वात्, 'निमित्तं' इति लक्ष्यते शुभाशुभमनेनेति लक्षणं निमित्तमेव लक्षणं निमित्तलक्षणं तदष्टप्रकारम् उक्तं च- "भोमं सुमिणंतलिक्खं दिवं अंग सर लक्खणं तह य । वंजणमट्ठविहं खलु निमित्तमेयं मुणेयवं ॥ १ ॥” स्वरूपमस्य ग्रन्थान्तरादवसेयम्, एकैकमप्यतीतानागतवर्त्तमान स्वरूपकालत्रयविषयं, उक्तं च- "लक्खिजई सुभासुभमणेण तो लक्खणं निमित्तंति । भोमाइ तदट्ठविहं तिकालविसयं जिणाभिहियं ॥ १॥" 'उप्पाय'ति यतो नानुत्पन्नं लक्ष्यते वस्तु तत उत्पादोऽपि लक्षणं, 'विगमो यत्ति विगमश्च - विनाशश्च वस्तुलक्षणं, तमन्तरेणोत्पादाभावात्, न हि व्यक्ततया अविनष्टमङ्गुलिद्रव्यमृजुतयोत्पद्यते इति भावना ! वीरिय भावे अ तहा लक्खणमेअं समासभ भणियं । अहवाचि भावलक्खण चउविहं सदहणमाई ॥ ७५२ ॥ Jain Education International For Private & Personal Use Only लक्षणद्वारं ॥१६८॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy