SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ जीवो देव इति विशेषणविशेष्यभूतपददये जीव इति पूर्वपदं देवत्वं व्यभिचरत्यपि, जीवस्य देवस्यादेवस्य च नारकादे- दर्शनात् , देवो जीव इति प्रत्यावृत्तौ देवो जीवत्वं न व्यभिचरति, देवस्यावश्यं जीवत्वात् , ततः पूर्वपदव्याहतमेतत् , उत्तरपदव्याहतं यथा-'जीवइ भंते ! जीवे ?, जीवे जीवेइ ?, गोयमा! जीवइ ताव नियमा जीवे, जीवे पुण सिय जीवइ सिय नो जीवई' इह जीव इति दशविधप्राणधारी भण्यते, स नियमात् जीवः, अजीवे दशविधप्राणासम्भवात् , जीवः पुनः स्यात् जीव इति स्यान्न जीव इति, सिद्धानां दशविधप्राणधारणासम्भवात् , तत इह उत्तरपदं ब्याहतं, व्यभिचारात्, है। पूर्वपदं त्वव्याहतं, जीवनस्य जीवमन्तरेणाभावादिति, उभयपदव्याहतं यथा-'भवसिद्धिए णं भंते ! नेरइए? नेरइए भवसिद्धिए !, गोयमा | नेरइए सिय भवसिद्धिए सिय अभवसिद्धिएवि,भवसिद्धिए सिय नेरइए सिय अनेरइए' अत्र पूर्वपदवी भव्यो नैरयिकत्वं ब्यभिचरति, अनैरयिकस्य देवादेरपि भव्यत्वभावात् , एवमुत्तरपदवी नैरयिको भव्यत्वं व्यभिचरति, अभब्यस्यापि नरयिकत्वभावात् , अत इदमुभयपदव्याहतं, उभयपदाव्याहतं यथा-'जीवे भंते ! जीवे , जीवे जीवे ?, गोयमा ! जीवे नियमा जीवे, जीवेऽवि नियमा जीवे' इह एकस्य जीवशब्दस्योपयोगो वाच्यः, अपरस्य जीवद्रव्यं, तत उपयोगो नियमात् जीवो, जीवोऽपि नियमादुपयोग इत्युभयपदाव्याहतमेतत्, लोकेऽपि चतुविधमिदं गत्यागतिलक्षणं प्रसिद्धं, तद्यथा-पूर्वपदव्याहतं यथा रूपी घट इति, रूपी हि घटो भवत्यघटश्च पटादिरिति पूर्वपदव्याहतिः, घटस्तु रूप्येवेत्युत्तरपदव्याघातः, उत्तरपदाव्याहतं यथा चूतो दुम इति, इह चूतो दुम एवेति पूर्वपदाव्याघातः, दुमश्च चूतोऽपि स्यादचूतोऽप्यश्वत्थादिरित्युत्तरपदव्याहतिः, उभयपदव्याहतं यथा नीलोत्पलं, नीलं धुत्पलं RECORRECICCARROREGAME www.iainelibrary.org Jain Education Interational For Private & Personal Use Only
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy