________________
श्यक मल- २० वृत्ती उपोद्घाते
॥३६७॥
कशचक्रध्वजादीनां यो मङ्गलपट्टादावक्षतादिभिया॑सस्तत् स्थापनालक्षणं, शरीरभव्य शरीरव्यतिरिक्तं यत् यस्य
प्रत्ययरक्षद्रव्यस्यान्यतो व्यवच्छेदकं स्वरूपं यथा गत्यादि धर्मास्तिकायादीनां, इदमेव च किश्चिन्मात्रविशेषात् सादृश्यसामान्यादि-13
णद्वारे लक्षणभेदं निरूप्यते, तत्र 'सरिस'त्ति सादृश्यं लक्षणं, यथाऽस्मिन् देशे घटा ऊर्ध्वग्रीवा अधस्तात्परिमण्डला विपुलकु-17 क्षयस्तथाऽन्येष्वपि देशेष्वित्यादि, 'सामन्नलक्खणं'ति सामान्यलक्षणं यथा सिद्धः सिद्धानां सद्रव्यजीवमुक्तत्वादिधर्मः समान इति, 'आगारे'त्ति आक्रियते-अभिप्रेतं ज्ञायते अनेनेत्याकारो-बाह्यचेष्टारूपः स एवान्तराकृतगमकत्वालक्षणमाकारलक्षणम् , अन्तराकृतगमकता चाकारस्य सुप्रसिद्धा, उक्तं च-"आकारैरिङ्गितैर्गत्या, चेष्टया भापणेन च । नेत्रक्रिविकारेश्च, लक्ष्यतेऽन्तर्गतं मनः॥१॥” इति, 'गइरागइत्ति गत्यागतिलक्षणं, तत्र द्वयोर्द्वयोः पदयोर्विशेषणविशेष्यतयाऽनुकूलगमनं गतिः, यथा-'जीवेणं भंते ! देवे? देवे भंते! जीवे?' इत्यत्र वाक्ये जीवो भदन्त ! देव इति जीवमनूद्य देवत्वं पृच्च्यते, अत्र जीवपदाद्देवपदे आनुकूल्येन यथास्थित्या गतिः, प्रत्यावृत्त्या-प्रातिकूल्येन गमनमागतिः, यथा देवो ८ जीव इत्यत्र देवमनूद्य जीवत्वं पृच्छयते इति, इह प्रत्यावृत्त्या देवपदाजीवपदे आगतिः, गतिश्चागतिश्च गत्यागती ताभ्यां ते वा लक्षणं गत्यागतिलक्षणं, उक्तं च-"अपरोप्परं पयाणं विसेसणविसेसणिज्जया जत्थ । गच्चाईए दोण्हं गइरागइलक्खणं तं तु ॥१॥ (वि.२१५६) तच्चतुर्दा, तद्यथा-पूर्वपदव्याहतमुत्तरपदव्याहतं उभयपदव्याहतं उभयपदाव्याहतं घ,
॥३६७॥ तत्र पूर्वपदं व्याहतं-व्यभिचारि यत्र तंत् पूर्वपदव्याहतं, पूर्वपदव्यभिचारीत्यर्थः, एवमन्येष्वपि यथायोगं समासः, तत्र पूर्वपदव्याहतं यथा-'जीवे भंते ! देवे !, देवे जीवे?,-गोयमा! जीवे सिय देवे सिय नो देवे, देवे पुण नियमा जीवे" इति, अत्र
RECXIGARCARE
www.jainelibrary.org
Jain Education Interior
For Private & Personal Use Only