________________
आवश्यके श्रीमलयसमवसरणे
॥ ३६६ ॥
Jain Education Intel
तथा चोतं परममुनिभिः - " संजमे अणण्यफले तवे वोदाणफले" अणण्हवः - अनाश्रवः, वोदाणं- कर्म्मनिर्जरा, कर्मविवेकस्य च प्रयोजनमशरीरतैव च ॥ साम्प्रतं विवक्षितमर्थमुक्तानुवादेन प्रतिपादयन्नाह - कम्मविवेगो असरीरयाइ असरीरयाऽणवाहाए । होअणवाहनिमित्तं अवेअणु अगाउलो निरुओ ॥ ७४७ ॥ निरुअत्ताए अपलो अयलत्ताए अ सासओ होइ । सासयभावमुवगओ अवावाहं सुहं लहइ || ७४८ ॥ कर्म्मविवेकः–कर्म्मपृथग्भावः अशरीरतायाः कारणम्, अशरीरता 'अणात्राहाए' इति अनावाधायाः कारणं भवति, 'अनाबाधानिमित्तं' अनाबाधाकार्य, निमित्तशब्दः कार्यवाचकः, लोके च वक्तारो भवन्ति-अनेन निमित्तेन-अनेन कारणेन मयेदमारब्धं, अनेन कार्येणेत्यर्थः, ततश्च भवत्यनाबाधाकार्यमवेदनः - वेदनारहितो, जीव इति गम्यते स चावेदनत्वादनाकुल:- अविह्वलः, अनाकुलत्वाच्च नीरुग् भवति, ततः स जीवो नीरुक्तया अचलो भवति, अचलतया च शाश्वतो भवति, शाश्वतभावमुपगतोऽव्याबाधं सुखं लभते, इत्यं पारम्पर्येण अव्यावाधसुखार्थ सामायिक श्रवणमिति गौतमादयः शृण्वन्ति ॥ गतं कारणद्वारम्, अधुना प्रत्ययद्वारमाह
पच्चयनिक्खेवो खलु दहंमी तत्तमासगाईओ । भावंमि ओहिमाई तिविहो पगयं तु भावेणं ॥ ७४९ ॥ प्रत्याययतीति प्रत्ययः - अन्तर्भूतण्यर्थादत्प्रत्ययः प्रत्ययस्तस्य निक्षेपो-न्यासः प्रत्ययनिक्षेपः, खलुशब्दोऽनन्तरोचकारणनिक्षेपसाम्यप्रदर्शनार्थः, ततश्च नामादिचतुर्विधः प्रत्ययनिक्षेपः, तत्र नामस्थापने सुगमे, 'द्रव्ये' द्रव्यविषयो ज्ञशरीरभव्यशरीरव्यतिरिक्तः प्रत्ययः तचभाषकादिः, आदिशब्दात् घटादिपरिग्रहः, द्रव्यं च तत् प्रत्याय्यप्रतीतिहेतुत्वाद्
For Private & Personal Use Only
सामायिक
भाषण
श्रवण
कारणानि
॥ ३६६ ॥
www.jainelibrary.org