________________
--
-
--
गाथाद्वयस्यापि व्याख्या प्राग्वत्, इत्थं तीर्थकरस्य सामायिकभाषणकारणमभिधायाधना गणभृतामाशाद्वारेण तच्छ्वणकारणं प्रतिपादयन्नाह
गोअममाई सामाइयं तु किं कारणं निसामेति ? । नाणस्स तं तु सुंदरमंगुलभावाण उवलद्धी ॥ ७४५ ॥ | गौतमादयो गणधराः 'किं कारणं' किं निमित्तं-किं प्रयोजनं सामायिक निशमयन्ति-शृण्वन्ति !, उच्यते-'नाणस्स'त्ति प्राकृतत्वाच्चतुर्थ्यर्थे षष्ठी, ततश्च ज्ञानाय-ज्ञानार्थ, तादर्थे चतुर्थी, तेषां हि भगवदनविनिर्गतसामायिकशब्दान् श्रुत्वा तदर्थविषयं ज्ञानमुत्पद्यते, ततो ज्ञानार्थ शृण्वन्ति, तत्तु ज्ञानं सुन्दरमङ्गुलभावानां-शुभेतरपदार्थानां 'उवलद्धीति उपब्धये-उपलब्धिनिमित्तं, सा च सुन्दरमङ्गुलभावोपलब्धिः प्रवृत्तिनिवृत्त्योः कारणम् ॥ आह च
होइ पवित्तिनिवित्ती संजमतव पावकम्मअग्गहणं । कम्मविवेगो अ तहा कारणमसरीरया चेव ॥७४६॥ * शुभेतरभावपरिज्ञानाद्भवतः प्रवृत्तिनिवृत्ती, शुभेषु प्रवृत्तिर्भवति इतरेषु निवृत्तिरिति भावः, ते च प्रवृत्तिनिवृत्ती संय
मतपसोः कारणं, प्रवृत्तिस्तपसः कारणं निवृत्तिः संयमस्येति हृदयं, तत्र निवृत्तिकारणकत्वेऽपि संयमस्य प्रागुपादानेन
पूर्वकर्मागमनिरोधेऽस्य कारणप्राधान्यख्यापनार्थ, तत्पूर्वकं च वस्तुतः सफलं तप इति ज्ञापनार्थ च, संयमतपःकारणभूत*प्रवृत्तिनिवृत्त्योस्तु प्रयोजनोपन्यासः संयमे सत्यपि तपसि प्रवृत्तिः कायेंत्यमुनांशेन तपसः प्राधान्यख्यापनार्थः, इत्यलं प्रहासनेन, तयोश्च संयमतपसोः कारणं-निमित्तं प्रयोजनं यथासख्यं पावकम्मअग्गहणं'ति पापकर्माग्रहणं तथा कर्मविवेकश्च,
-
---
Jain Education
temational
For Private & Personal use only
www.jainelibrary.org