SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ समवसरणे आवश्यके मिथ्यात्वमज्ञानमविरतिश्चेति त्रिविधं संसारकारणं, तत्र मिथ्यात्वं तत्त्वार्थाश्रद्धानं, शेषं गतार्थम् , एवं कषायादिसम्पर्का- भावकारणे प्रमिलादन्येऽपि भेदाः प्रतिपादयितव्याः। उक्तमप्रशस्तं भावकारणम् , अधुना प्रशस्तमुच्यते भवमोक्षहोइ पसत्थं मुक्खस्स कारणं एग दुविह तिविहं वा । तं चेव य विवरीअं अहिगारु पसत्थएणित्थ ॥ ७४१॥ कारणानि __ भवति प्रशस्तं भावकारणं मोक्षस्य कारणं, तच्च एकमिति-एकभेदं द्विविधं त्रिविधं वा, इदं पुनस्तदेव संसारकारणम-* १३६५॥? संयमादि विपरीतं द्रष्टव्यम् , एकविधं संयमः, द्विविधं ज्ञानसंयमौ, त्रिविधं सम्यग्दर्शनज्ञानचारित्राणि, अधिकारः-प्रयो जन प्रशस्तन भावकारणेन, अत्र-सामायिकव्याख्याने, मोक्षाङ्गत्वादस्य, तथाहि-सामायिकाध्ययनं क्षायोपशमिकश्च प्रशस्तो भावो मोक्षकारणमतोऽधिकारः प्रशस्तेन भावकारणेनेति ॥ इत्थं कारणद्वारे अधिकार प्रदर्य पुनः कारणद्वारसअन्तमेव वक्तव्यताशेषमाशङ्काद्वारेणाभिधित्सुराहतित्थयरो किं कारण भासइ सामाइअंतु अज्झयणं । तित्थयरनामगुत्तं कम्मं मे वेइअवंति ॥ ७४२ ॥ तीर्थ पूर्वोक्तं तत्करणशीलस्तीर्थकरः, स किं कारणं-किं निमित्तं भाषते सामायिकमध्ययनं, तुशब्दादन्याध्ययनपरिग्रहः, तस्य कृतकृत्यत्वादिति हृदयं, उच्यते, तीर्थकरनामगोत्रं-तीर्थकरनामसंज्ञ, गोत्रशब्दः संज्ञायां, कर्म बद्धं मया वेदितव्यमित्यनेन कारणेन भाषते । ॥३६५॥ तं च कहं वेइज्जइ ? अगिदाए धम्मदेसणाई हिं । बज्झइ तं तु भगवओ तइअभवोसकइत्ताणं ॥ ७४३॥ नियमा मणुयगईए इत्थी पुरिसेयरोब मुहलेसो। आसेवियबहुलेहिं वीसाए अन्नयरेहिं ॥७४४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy