SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्यकारकत्वात् , 'दो अवलण्डने दान-खण्डनं अपहत्य मर्यादया दान-खण्डनं 8 वियोजनं मृत्पिण्डादेयत्तदपादानं, तथाहि-मृत्पिण्डस्यापायेऽपि भूधुवेति तस्या अपादानता, सा चघटेस्य कारणं, तामन्तकारेण तस्यानुत्पादात्, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात् , सन्निधीयते यत्र कार्य तत्सन्निधानं अधिकरणं, तच्च घटस्य चक्र, तस्यापि भूः, तस्या अप्याकाशं, आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्ठत्वात्, घटस्य चेदं कारणम्, एतदभावे घटानुत्पत्तेः। उक्तं द्रज्यकारणमिदानी भावकारणप्रतिपादनार्थमाहदुविहं च होइ भावे अपसत्य पसत्थगं च अपसत्यं । संसारस्सेगविहं दुविहं तिविहं च नायचं ॥ ७३९॥ भवतीति भावः, स च औदायिकादिभावः, भाव एव कारणं संसारापवर्गयोरिति भावकारणं, तच्च द्विविधं च-द्विप्रकारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा कारणं भावकारणमित्यर्थः, अप्रशस्तं-अशोभनं प्रशस्तं च-शोभनं, तत्राप्रशस्तं संसारस्य सम्बन्धि, तच्च एकविधम्-एकभेदं द्विविध-द्विभेदमेवं त्रिविधं च ज्ञातव्यं, चशब्दश्चतुर्विधाद्यनुक्ककारणभेदसमुच्चयार्थः । यदुक्तं संसारस्यैकविधमित्यादि तदुपदर्शनायाह___ अस्संजमो य एको अण्णाणं अविरई य दुविहं तु । अन्नाणं मिच्छत्तं अविरई चेव तिविहं तु ॥ ७४० ॥ असंयमः-अविरतिलक्षणः, स ह्येक एव संसारकारणम् , अज्ञानादीनां तदुपष्टम्भकत्वेनाप्रधानत्वात्, तथा अज्ञानं अविरतिश्चेति द्विविधं संसारकारणं, तत्राज्ञानं कर्माच्छादितजीवस्य विपरीतोऽवबोधः अविरतिः-सावधयोगानिवृत्तिः, तथा Jain Education Inter For Private & Personal use only X w.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy