________________
------
सकेषु वर्तमानः प्राणी तृणज्वालोपमवेदानुभवकाले वेदपुरुषः ख्यादिरप्युच्यते, तथा धर्मार्जनव्यापारपरः साधुर्धर्मपुरुषः, |अर्थार्जनव्यापारपरस्त्वर्थपुरुषः मम्मणवणिग्वत्, भोगपुरुषः सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्तिवत्, 'भावे यत्ति भावपुरुषः, चशब्दो वामाद्यनुक्तभेदसमुच्चयार्थः, भावपुरिसोउ जीवो भावे'त्ति पू:-शरीरं पुरि शेते इति || निरुक्तवशात् भावपुरुषो जीवः, "भावे'त्ति भावद्वारे निरूप्यमाणे, भावचिन्तायामिति भावः, अथवा भावे इति भावनिर्गमप्ररूपणायामधिकृतायां, किं-पगयं तु भावेणं'ति प्रकृतम्-उपयोगस्तु भावेन पदैकदेशे पदसमुदायोपचारात भावपुरुषेण शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दावेदपुरुषेण च गणधरेण, यतोऽर्थतस्तीर्थकराद्विनिर्गतं सूत्रतो गणधरेभ्य इति, एवमन्येऽपि यथासम्भवं पुरुषा आयोज्याः॥गतं पुरुषद्वारम् । साम्प्रतं कारणद्वारं व्याचिख्यासुराह
निक्खेवु कारणम्मी चउधिहो दुविह होइ दवम्मि । तद्दवमन्नदवे अहवावि निमित्तनेमित्ती॥ ७३७ ॥ | करोति-निवर्तयति कार्यमिति कारणं तस्मिन् कारणे-कारणविषयो निक्षेपो-न्यासः चतुर्विधः-चतुर्भेदः, तद्यथा-नामकारणं स्थापनाकारणं द्रव्यकारणं भावकारणं च, तत्र नामस्थापने सुज्ञाने, द्रव्यकारणं ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्विधा, तथा च द्विविधो भवति द्रव्ये, निक्षेप इति वर्त्तते, किमुक्तं भवति?-ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यकारणविषयो निक्षेपो द्विधेति, तदेव द्वैविध्यं दर्शयति-तद्दवमन्नदवे' इति तद्रव्यकारणमन्यद्रव्यकारणं च, तस्यैव पटादेः द्रव्यं-तन्त्वादि तदेव कारणं तव्यकारणं, वेमाद्यन्यद्रव्यकारणं, अथवा अन्यथा व्यतिरिक्तकारणद्वैविध्यं-'निमित्तनैमित्तं' निमित्तकारणं नैमित्ति-| कारणं चेत्यर्थः, अपिशब्दादन्यथापि कारणनानाता तां वक्ष्यामि, तत्र पटस्य निमित्तं तन्तवस्त एव कारणं निमित्त
--
-%ARLS
Jain Education International
For Private & Personal use only
www.jainelibrary.org