SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ #. सादिः सपर्यवसान इत्येवं चतुर्भङ्गविभङ्गभावनाऽत्र कार्या, केषामित्याह-औदयिकादीनां भावानां, ततश्च योऽसौ १ विभागभावनाविषयस्तं जानीहि भावकालम् , इयमक्षरगमनिका, भावार्थस्त्वयं-औदयिको भावः सादिःसपर्यवसानः सादिभरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसानः, एवमौपशमिकादिष्वपि चतुर्भङ्गिका द्रष्टव्या, इयं पुनरत्र विभाग भावना-औदयिकचतुर्भनिकायां द्वितीयो भङ्गो न घटते, शेषास्तु घटन्ते, तेषामयं विषयः-नारकादीनां नारकादिभवः १ खल्वौदयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिकोऽनादिसपर्यवसानः, स एवाभन्यानां चरमभङ्गे है। इत्युक्त औदयिकः, औपशमिकचतुर्भङ्गिकायामाद्य एव भङ्गो घटते, तद्द्यादयस्तु शून्याः, प्रथमभङ्गस्त्वेवम्-औपशमिकसम्यक्त्वादिरौपशमिको भावः सादिः सपर्यवसान इत्युक्त औपशमिका, क्षायिकचतुर्भङ्गिकायां तु तृतीयचतुर्थों भङ्गो न घटेते, प्रथमद्वितीयौ तु घटेते, तथाहि-क्षायिक चारित्रं दानादिलब्धिपञ्चकं च क्षायिको भावः सादिः सपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पातीतत्वात् , क्षायिकज्ञानदर्शने तु सादिअपर्यवसानः, अन्ये तु द्वितीयभङ्ग एव सर्वमिदं प्रतिपादयन्ति, उत्कः क्षायिका, क्षायोपशमिकचतुर्भनिकायां द्वितीयभङ्गाभावः, शेषभङ्गानामयं विषयः-चत्वारि ज्ञानानि द्राक्षायोपशमिको भावः सादिः सपर्यवसानः, मत्यज्ञानश्रुताज्ञाने भव्यानामनादिः सपर्यवसानः, एते एवाभव्यानामनादिर पर्यवसानः, उक्तः क्षायोपशामिका, पारणामिकचतुर्भनिकायामपि द्वितीयभङ्गाभावः, शेषभङ्गकानामयं गोचरः-व्यणुकादिपारिणामिको भावः सादिसपर्यवसानः, भव्यत्वं भन्यानामनादिसपर्यवसानः, जीवत्वं पुनरनादिरपर्यवसानः, उक्तः पारिणामिकः, उतार्थसङ्ग्रहगाथा जो नारगाइ भावो तह मिच्छत्तादोऽवि भवाणं । ते चेवाभवाणं ओदइए बिइयवज्जोऽयं KICHECCrock KHES www.jainelibrary.org Jain Education Interational For Private & Personal Use Only
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy