________________
य
%
+
आवश्यके श्रीमलयसमवसरणे
॥३६शा
दिवसपौरुष्या द्वाविंशशततमेन मुहूर्तभागेन वृद्धिः, रात्रिपौरुष्या हानिः, कथमेतदवसेयमिति चेत्, उच्यते, इह प्रमाणकाल दिवसपोरुप्या रात्रिपौरुष्या वृद्धौ हानौ वा सकलेनायनेन साढ़े मुद्दों दृष्टः, अयनपरिमाणं च त्र्यशीत्यधिकं दिनशतं, पारुषीमानं ततोऽत्र त्रैराशिककर्मावतारः-यदि त्र्यशीत्यधिकेन दिनशतेन पौरुष्या.वृद्धौ हानौ साद्धों मुहूर्तों लब्धः ततः प्रतिदिवसं किं लभामहे ?, राशित्रयस्थापना १८३-शा-१, अत्रान्त्येन राशिना व्यशीत्यधिकेन दिनशतेन पौरुष्या वृद्धौ मध्यराशे-16 गुणनं, जातस्तावानेव, 'एकेन गुणितं तदेव भवतीति न्यायात्, तत आयेन राशिना भागहरणं, भागहारश्च न पूर्यते, ततस्तृतीयांशेन छेद्यच्छेदकराश्योरपवर्तना, जात उपरि एककोऽधस्तात् द्वाविंशं शतं १२२, आगतमेकैकस्मिन् दिने पौरुष्या वृद्धौ हानौ वा मुहूर्तस्य द्वाविंशशततमो भागो लभ्यत इति, उक्कं च-"वुद्धी बावीसुत्तरसयभागो पइदिणं मुहत्तस्स । एवं हाणीवि मया अयणस्स विभागतो नेया ॥१॥ (वि.२०७१)" । इदानीं वर्णकालस्वरूपप्रतिपादनार्थमाह| पंचण्हं वण्णाणं जो खलु वन्नेण कालओ वण्णो। सो होइ यण्णकालो वणिज्जह जो व जंकालं ॥७३१॥ - पञ्चाना शुक्लादीनां वर्णानां यः खलु वर्णेन-छायया कालको वर्णः खलुशब्दस्यावधारणार्थत्वात् कालक एव वर्णः, अनेन गौरादेर्नामकृष्णस्य व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्च वर्णकालः, वणिजइ जो वजंकाल'मिति,
॥३६॥ वर्णनं वर्णः प्ररूपणमित्यर्थः, ततश्च वर्ण्यते-प्ररूप्यते यो वा कश्चित्पदार्थों यत्कालं स वर्णकालः, वर्णप्रधानः कालो वर्णकालः । इदानीं भावकालः प्रतिपाद्यः, भावानामौदयिकादीनां स्थितिः भावकालः, तथा चाह
साई सपज्जवसिओ चउभंगविभागभावणा इत्थं । उदईआईआणं तं जाणसु.भावकालं तु॥७३२॥
Jain Education International
For Private & Personal use only
_www.jainelibrary.org