________________
CI
स्वाध्यायकरणकालः, अकाले-अप्रस्तावे मरणं कुर्वतेति, तदनेन कालशब्दस्य मरणवाचित्वमुपदर्शितं ॥ सम्प्रति प्रमाणकालः प्रतिपाद्यः, तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वती विशिष्टव्यवहारहेतुरहर्निशारूपः प्रमाणकालः, तथा चाह भाष्यकृत्-"अद्भाकालविसेसो पत्थयमाणं व माणुसे खेत्ते । सो संववहारत्थं पमाणकालो अहोरत्तं ॥१॥ (२०६८)"अत्र 'पत्थयमाणं वत्ति यथा सामान्येन मानावयवभूतं प्रस्थकरूपं मानं संव्यवहाराय कल्प्यते तथाऽहर्निशारूपः प्रमाणकालोऽद्धाकालस्यैव विशेषः सन् पृथक् संव्यवहाराय प्ररूप्यते इति । अमुमेव प्रमाणकालं भेदत आहदुविहो पमाणकालो दिवसपमाणं च होइ राई अचउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥ ७३० ॥
प्रमीयतेऽनेन जीवादीनामायुप्रभृतिरिति प्रमाणं तदेव कालः प्रमाणकालः,स द्विविधः, दिवसप्रमाणं भवति रात्रिश्च-दिवसप्रमाणकालो रात्रिश्च, चतुष्पौरुषीको दिवसो रात्रिश्च चतुष्पौरुषी, पौरुषीप्रमाणं चानियतं, दिवसनिशाहानिवृद्धिभावात् , तत्र यदा सर्वजघन्यो द्वादशमुहत्तों दिवसस्तदा सर्वोत्कृष्टाऽष्टादशमुहूर्त्ता रात्रिः, तदा च दिवसस्य पौरुषी मुहूर्त्तत्रयमाना। रात्रेश्च अईपञ्चममुहूर्तप्रमिता, यदा तु सर्वोत्कृष्टोऽष्टादशमुहूर्तो दिवसस्तदा सर्वजघन्या द्वादशमुहूर्ता रात्रिः, तदा च पौरुषी दिवसस्था पञ्चममुहूर्तमाना रात्रेश्च मुहूर्त्तत्रयमाना, एवं दिवसस्य रात्रेर्वा पौरुष्यत्रयो मुहूर्ता जघन्यं माना अर्द्रपञ्चमा उत्कृष्ट, उक्कं च-"पोरिसिमाणमनिययं दिवसनिसावुद्धिहाणिभावातो।हीणं तिन्नि मुहुत्तस्सद्धपञ्चमा माणमुक्कोसं ॥१॥ (वि.२०७०)" सर्वजघन्यश्च दिवसः सर्वोत्कृष्टा च रात्रिर्दक्षिणायनचरमदिवसे, सर्वोत्कृष्टो दिवसः सर्वज-४
पन्या च रात्रिरुचरायने, प्रथमदिवसादारभ्य प्रतिचरमवासरशेषेषु तु दिवसेषु दक्षिणायने प्रथमदिवसादारभ्य प्रतिदिवसं : मा. ६१४
CRORESTOCTOXACTIONS-4.
CAM-9-4--
Jain Education inte
For Private & Personal Use Only
STMpw.jainelibrary.org