SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आवश्यके श्रीमलयसमवसरणे ॥३५९॥ आऊलीभूतं महया महया सद्देणं पारुण्णं, कालंतरेण अप्पसोगं जायं, एवं भयाध्यवसाने सति भिद्यते आयुः, यदुक्तम्'निमित्ते सति भिद्यते आयु' रिति तत्र निमित्तमनेकप्रकारं तद्दर्शयति दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला । सीउन्हं अरइ भयं खुहा पिवामा य वाही अ || ७२५ ॥ मुत्तपुरीसनिरोहे जिष्णाजिष्णं च भोअणं बहुसो । घंसणघोलणपीलण आउस्स उवक्कमा एए ॥ ७२६ ॥ दण्डकशशस्त्ररज्जवः अग्निरुदकपतनं विषं व्यालाः शीतोष्णं अरतिभयं क्षुत्पिपासा च व्याधिश्च मूत्रपुरीपनिरोधः जीर्णाजीर्णे च भोजने बहुशः घर्पणघोलनपीडनानि आयुष उपक्रमहेतुत्वात् उपक्रमा एते, कारणे कार्योपचारात्, यथा तन्दुलान् वर्षति पर्जन्य इति । कथं दण्डादय उपक्रमहेतव इति चेत्, दण्डेन (कशेन च) गाढमभिघाते, शस्त्रेण-खगादिना, रज्वा गलादौ बन्धे, अग्निना परिदाहे, उदके सर्व स्रोतसामन्तः पूरणेन, विषे भक्षिते, व्यालाः - सर्पाः तैर्दशने, शीतेनोष्णेन च * संस्पर्शतः, अरत्या भयेन चान्तर्मनसि पीडासमुत्पत्तौ, क्षुधा धातुभक्षणेन, पिपासया हृदयगलतालुशोषेण, मूत्रपुरीषनिरोधे शरीरक्षोभतः, जीर्णाजीर्ण नाम अर्द्धजीर्ण तस्मिन् सति अनेकशो भोजने रसोपचयतः, घर्षणं चन्दनस्येव घोलनं अङ्गुष्ठकाङ्गुलि गृहीत चाल्यमानयूकाया इव तस्मिन् पीडनमिक्ष्वादेरिव तस्मिन्नपि सति, भिद्यते आयुरित्येते सर्वेऽप्युपक्रमहेतवः * ॥ द्वारं ॥ तथा आहारे सत्यसति वा भिद्यते आयुर्यथा- एगो मरुगो अट्ठारस वारे भुंजिऊण सूलेण मतो, अन्नो पुण छुहाए | मतोत्ति ॥ द्वारं ॥ वेदनायां सत्यां भिद्यते आयुर्यथा शिरोनयन वेदनादिभिरने के मृताः ॥ द्वारम् ॥ तथा परोपघाते सति भिद्यते आयुर्यथा दुस्तटीतः पतितस्य । तथा स्पर्शे सति भिद्यते आयुर्यथा तयाविसेणं सप्पेणं छित्तस्स, जहा वा वंभदत्तस्स इत्थि Jain Education Intende For Private & Personal Use Only आयुरुपऋ मे दण्डाद्या निमित्तानि ॥३५९॥ i ww.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy