SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ kakxx आवश्यके एवमेषा सामाचारी दशधा - दशविधा समासतः - सङ्क्षेपेण कथिता, केभ्य इत्याह-संयमतपोम्यामाढ्याः- समृद्धाः संयश्रीमलय- मतपआढ्यास्तेभ्यो निर्ग्रन्थेभ्यो महर्षिभ्यः । सामाचार्यासेवकानां फलमुपदर्शयति-समवसरणे ॥ ३५५॥ एअं सामायारिं जुंजंता चरणकरणमाउत्ता । साहू खवंति कम्मं अणेगभवसंचिअमणंतं ॥ ७२३ ॥ एताम् - अनन्तरोदितस्वरूपां दशधा सामाचारीं यथाविधि युञ्जानाः, तथा चरणकरणायुक्ताः - चरणं - प्रतादि, उक्तं च - " वय ५ समणधन्म १० संजम १७ वेयावच्चं १० च वंभगुत्तीतो ९ । नाणाइतियं ३ तव १२ कोहनिग्गहा ४ चेव चरणं तु | ॥१॥" करणं पिण्डविशुद्ध्यादि, तदुक्तं - "पिंडविसोही ४ समिई ५ भावण ११ पडिमा १२ य इन्दियनिरोहो ५ । पडिलेहण २५ गुत्तीओ ३ अभिग्गहा ४ चैव करणं तु ॥ १ ॥” तयोः चरणकरणयोरायुक्ताः- सम्यग् आ-समन्तात् उपयुक्ताः साधवः क्षपयन्ति कर्म अनेक भवसञ्चितमनन्तमिति ॥ इदानीं पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा, ततः स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः ॥ साम्प्रतं यथायुष्कोपक्रम कालः प्रतिपाद्यः, स च सप्तधा, तथा चाह अज्झवसाण निमित्ते आहारे वेअणा पराघाए । फांसे आणापाजू सत्तविहं जिज्झए आउं ॥ ७२४ ॥ अध्यवसानं रागस्नेहभयभेदात् त्रिधा, तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सति, वेदनायां नयनादिसम्बन्धिन्यां सत्यां, तथा पराघातो गर्त्तपातादिसमुत्थस्तस्मिन् सति, स्पर्शे भुजङ्गमादिसम्बन्धिनि, 'आणापाणु त्ति पदैकदेशे पदसमुदायोपचारात् प्राणापानयोर्निरोधे, किमित्यत आह-एवं सप्तविधं सप्तप्रकारं भिद्यते आयुः, एष | गाथासमुदायार्थः । अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि - रागाध्यवसायेऽपि भिद्यते आयुर्यथा- एगस्स गावीओ Jain Education International For Private & Personal Use Only उपसंपत्सा माचारी सामाचारी फलं ॥ ३५५॥ www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy