________________
आवश्यके श्रीमलयसमवसरणे
चारित्रोफ संपत्
॥३५४॥
SARA CASASSASALAMAT
आगन्तुकः, अथ वास्तव्यः खल्वित्वर: आगन्तुकस्तु यावत्कथिकस्ततो वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्वरौ तत्राप्येक उपाध्यायादिभ्यो दीयते, अन्यस्तु कार्यते, शेषं पूर्ववत् , अन्यतमो वाऽवधि- कालं यावत् ध्रियते इत्येवं यथाविधि विभाषा कार्या, उपाध्यायादिभ्य इत्यत्रादिशब्दात् स्थविरग्लानशैक्षकादिपरिग्रहः । उक्ता वैयावृत्त्योपसम्पत्, सम्प्रति क्षपणोपसम्पत् प्रतिपाद्यते-'अविगिट्टे'त्यादि, कश्चित् क्षपणार्थमुपसम्पद्यते, स क्षपको द्विविधा-इत्वरो यावत्कथिकश्च, यावत्कथिक उत्तरकाले अनशनकर्ता, इत्वरस्तु द्विधा-विकृष्टक्षपकः अविकृष्टक्षपकश्च, तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्टक्षपकः, तत्रायं विधि:-अविकृष्टक्षपकः खल्वाचार्येण पृच्छयते-हे आयुष्मन् ! पारणके त्वं कीदृशो भवसि ?, यद्यसावाह-लानोपमः, ततोऽसावभिधातव्यः-अलं तव क्षपणेन, स्वाध्यायवैयावृत्त्यकरणे यतं कुरु, इतरोऽपि पृष्टः सन् एवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते-विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपि इष्यत एव, यस्तु मासादिक्षपको यावत्कधिको वा स इष्यते एव, तत्राप्याचार्येण गच्छः प्रष्टव्यो, यथाऽयं क्षपक उपसम्पद्यते इति, अनापृच्छ्च गच्छं संयच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अपि उपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते-यथाऽस्माकमेकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ धियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुवर्तते, ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्य उद्धनादि कार्य, यदा पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदा आचार्येण चोदनीयाः, इत्यलं प्रसलेन ॥ सम्पति चारित्रोपसम्पद्विधिविशेषप्रतिपादनार्थमाह
CACACAKACACAKC
॥३५४॥
Jain Educa
For Private & Personal use only
miww.jainelibrary.org