SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ गाथार्थः॥ एवं तावत् ज्ञानोपसम्पद्विधिः उक्तः, दर्शनोपसंपद्विधिरप्यनेनैवोक्को द्रष्टव्यः, तुल्ययोगक्षेमत्वात् , तथाहि-दर्शनप्रभावकशास्त्रपरिज्ञानार्थमेव दर्शनोपसम्पदिति ॥ सम्प्रति चारित्रोपसम्पद्विधिमभिधित्सुराहदुविहा य चरित्तम्मि वेयावच्चे तहेव खमणे य । निअगच्छा अनम्मि उ सीअणदोसाइणा होइ॥७१८॥ द्विविधा चारित्रे-चारित्रविषय उपसम्पत, तद्यथा-वैयावृत्त्यविषया क्षपणविधिविषया च, किमत्रोपसम्पदा कार्य? स्वगच्छ एव तत् कस्मान्न क्रियते ?, उच्यते, निजगच्छादन्यस्मिन् गमनं सीदनदोषादिना भवति, आदिशब्दादन्यभावादिपरिग्रहः॥ इत्तरिआइ विभासा वेयावच्चे तहेव खमणे अ। अविगिट्टविगिहम्मी गणिणा गच्छस्स पुच्छाए ॥ ७१९॥ इह चारित्रार्थमाचार्यस्य कश्चिद् वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वयावृत्त्यकरोऽस्ति वा न वा, तत्रायं विधिः-यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स द्विविधः-इत्वरो वा स्याद्यावत्कथिको वा, आगन्तुकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्काथिको ततो यो लब्धिमान् स कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते, अथ द्वावपि लब्धियुक्तौ ततो वास्तव्य एव कार्यते, इतरस्तूपाध्यायादिभ्यो दीयते इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यते इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसयंत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वितर इत्यत्राप्येवमेव भेदाः यावदागन्तुको विसृज्यते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या विश्राम्यते, यदि सर्वथा नेच्छति ततो विसृज्यते 8 PROGROGREC%ACTOR Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy