________________
AC
C
'काइयाए वीयं तु' इति ?, उच्यते, यदि नाम रोगवशतः पुनः पुनः कायिकी समागच्छति तथापि तदवस्थेनापि गुरुणा शिष्याणामनुग्रहाय सूत्र व्याख्येयमिति ज्ञापनार्थमेतदुक्तं, तथा चायमेवार्थ उक्तः पञ्चवस्तुके "दो चेव मत्तगाई खेले तह काइयाए वीयं तु । एवंविहोऽवि सुत्तं वक्खाणिजत्ति भावत्यो ॥१॥” (१००३) कृतिकर्मद्वारे एतदभिधानं विधिविशेषख्यापनार्थमित्यदुष्ट, यावन्तश्च शृण्वन्ति तावन्तस्ते सर्वेऽपि द्वादशावर्त्तवन्दनेन वन्दन्ते । अधुना कायोत्सर्गद्वारं * ४ व्याचिख्यासुराह
सवे काउस्सग्गं करेंति सच्चे पुणोऽवि वंदति । नासन्नि नाइदूरे गुरुवयणपडिच्छगा हुंति ॥७०६ ॥ सर्वे श्रोतारः 'श्रेयांसि बहुविघ्नानी तिकृत्वा तद्विघातायानुयोगप्रारम्भे कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि । वन्दन्ते, ततो नासन्ने नाप्यतिदूरे व्यवस्थिताः सन्तो गुरुवचनप्रतीच्छका भवन्ति, शृण्वन्तीत्यर्थः । सम्प्रति श्रवणवि-13 है धिप्रतिपादनार्थमाह
निदा-विगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअवं ॥ ७०७ ॥ __ अमिकखंतेहिं सुभासिआई वयणाई अत्थसाराई। विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥७०८॥
निद्राविकथापरिवर्जितेः, परिवर्जितनिद्राविकथैरित्यर्थः, गुप्तैः-मनोवाकायगुप्तः 'पंजलिउडेहिं' इति निष्ठान्तस्य प्राकृतत्वात्परनिपात इति कृतप्राञ्जलिभिःभक्ति-यथोचिता बाह्या प्रतिपत्तिः बहुमानम्-आन्तरःप्रीतिविशेषस्तत्पूर्वम्, उपयुक्तैःश्रवणैकनिष्ठस्ततो गुरुमुखाद्विनिर्गतानि वचनानि सुभाषितानि-शब्दार्थदोपरहितानि अर्थसाराणि-विपुलार्थसमन्वितानि
CA%%*
ORRONMENT
Jain Education literational
For Private & Personal use only
www.jainelibrary.org