________________
आवश्यके श्रीमलय
समवसरणे
॥३५१॥
शेषः यग्रहणं । 'अत्थग्गहणंमी' त्यादि, अर्धग्रहणे प्रायो- वाहुल्येन एष वक्ष्यमाणलक्षणो विधिर्भवति ज्ञातव्यः, प्रायोग्रहणं सूत्रग्रहणेऽपि कञ्चिद्भवत्येव प्रमार्जनादिरिति ज्ञापनार्थे । साम्प्रतमधिकृत विधिप्रदर्शनाय द्वारगाथामाह
मजण निसिज्ज अक्खा किइकम्मुस्सग्गु वंदणं जिट्ठे । भासं तु होइ जिट्ठो न उ परिआएण तो वंदे ॥ ७०३ ॥ प्रथमतो यत्र स्थाने व्याख्यानं कर्त्तव्यं तस्य प्रमार्जनं कार्य, ततो निसिज्ज अक्खो इति प्राकृतत्वात् पष्ठयर्थे प्रथमा, | अक्षाणामुपलक्षणमेतत् गुरूणां चं चेलम्, अकृतसमवसरणेन गुरुणा व्याख्या न कर्त्तव्येत्युत्सर्गज्ञापनार्थ अक्षाणामुपादानं, तथा कृतिकर्म्म दातव्यं, तदनन्तरं वन्दनं ज्येष्ठे, ज्येष्ठश्चात्र भाषमाणो द्रष्टव्यो, न तु पर्यायेणेति द्वारगाथासमासार्थः । अवयवार्थे तु स्वत एवाह
ठाणं पमजिकणं दुन्नि निसिज्जा य हुंति कायद्वा । इक्का गुरुणो भणिया बिहूआ पुण होइ अक्खाणं ॥ ७०४ ॥ यत्र व्याख्या कर्त्तव्या तत् स्थानं प्रमार्ण्य द्वे निषद्ये भवतः कर्त्तव्ये, एका गुरोर्भणिता कर्त्तव्या, द्वितीया पुनर्भवत्य| क्षाणां समवसरणस्य ॥ सम्प्रति कृतिकर्म्मद्वारं व्याचिख्यासुराह -
दो चैव मत्तगाई खेले तह काइयाए बीयं तु । जावइया य सुणंती सधेविय ते उ वंदंति ॥ ७०५ ॥ द्वे एव मात्र समाधिस्थानरूपे खलु गुरुयोग्ये व्याख्यानमण्डल्यां प्रगुणीकर्त्तव्ये, तद्यथा-एकं खेलस्य - श्लेष्मणो द्वितीयं तथा कायिक्याः, अन्यथा अर्द्धकृत व्याख्यानोत्थानानुत्थानाभ्यां पलिमन्धात्मविराधानादिदोषप्रसङ्गः, ननु कृतकायिक्यादिव्यापारेणैव गुरुणा प्रायो व्याख्या प्रारभ्यते, ततो व्याख्याप्रबन्धे व कायिक्या अवकाशो येनोच्यते
Jain Education International
For Private & Personal Use Only
उपसंपत्सामाचारी
॥३५१॥
www.jainelibrary.org