SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ आ.सू. ५९ Jain Education inte Matión आवश्यकी आवश्यक:- प्रतिक्रमणादिभिः सर्वेषुक्कयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्वस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण' इत्यादि मनोवाक्कायेन्द्रियैः गुप्तत्व, किम् ? - आवश्यकी भवति, सूत्रे इन्द्रियशब्दस्य गाथाभङ्गभयाद् व्यवहित उपन्यासः कायात् पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम् अस्ति चायं न्यायः 'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थे मेदेनोपन्यासो' बथा ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति ॥ रक्ता आवश्यकी, साम्प्रतं नैषेधिक प्रतिपादयन्नाह— सिज्जं ठाणं च जहिं चेएइ तर्हि निसीहिआ होह । जम्हा तत्व मिलिडो तेनं तु निसीहि होइ ॥ ६९५ ॥ शेरते अस्यामिति शय्या - शयनस्थानं तां शय्यां 'स्थानं चे' ति स्थानम् - ऊर्ध्वस्थानं, कायोत्सर्ग इत्यर्थः, यत्र चेतयते 'चिती संज्ञाने ' अनुभवरूपतया विजानाति, वेदयते इत्यर्थः, अथवा चेतयते-करोति धातूनामनेकार्थत्वात्, शयनक्रियां च कुर्वता निश्चयतः शय्या कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, किं विशिनष्टीति चेत्, उच्यते, कृतप्रतिक्रमणाद्यशेषावश्यकः सन् अनुज्ञातो गुरुणा शय्यां स्थानं च चेतयते तत्र - एवंविधस्थितिक्रिया विशिष्टे स्थाने नैषेधिकी भवति, नान्यत्र, किमित्यत आह-यस्मात्तंत्र निषिद्धोऽसौ तेन कारणेन नैषेधिकी भवति, निषेधात्मकत्वात् तस्या इति, पाठान्तरं वा सेज्जं ठाणं च जया चेते तइया निसीहिया होइ। तम्हा तया निसेहो निसेहमइया य सा जेण ॥। ६९६ ॥ इयमुक्तार्थत्वात् सुगमैव, अनेन ग्रन्धेन मूलगाथावा 'आवश्यक निर्गच्छन् वां व आगच्छन् नैषेधिकीं करोति व्यञ्ज For Private & Personal Use Only 4-561-6 w.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy