SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 1 आवश्यकीनिषधिक्यो आवश्यक आवस्सइं च नितो जं च अइंतो निसीहिअं कुणइ । वञ्जणमेअंतु दुहा अत्यो पुण होइ सो चेव ॥६९२॥ श्रीमलय- आवश्यकी निर्गच्छन् यां च प्रविशन्नैपेधिकी करोति एतद् व्यञ्जनं-शब्दरूपं द्विधा, किमुक्तं भवति ?-आवश्यकीति समवसरणे निषेधिकीति चेति द्वयं शब्दत एव भिन्नम् , अर्थः पुनर्भवत्यावश्यकीनषेधिक्योः स एव-एक एव, यस्मादवश्यकर्त्तव्य योगक्रिया आवश्यकी निषिद्धात्मनश्चातिचारेभ्यः क्रिया नैषेधिकी, न ह्यसावप्यवश्यकर्त्तव्यं व्यापारमुलवय वर्तते, ॥३४८॥ आह-यद्येवं भेदोपन्यासः किमर्थः ?, उच्यते, गमनस्थितिक्रियाभेदात् ॥ आह-'आवश्यकी निर्गच्छन्नित्युक्तं तत्र साधोः। | किमवस्थानं श्रेय उताटनमिति !, उच्यते, अवस्थानं ?, कथं ?, यत आह| एगग्गस्स पसंतस्स न हुंति इरिआदओ गुणा हुंति । गंतवमवस्सं कारणम्मि आवस्सिआ होइ ॥ ६९३ ॥ | एकमग्रम्-आलम्बनं यस्येत्यसावेकाग्रस्तस्य, स चाप्रशस्तालम्बनोऽपि भवति तत आह–प्रशान्तस्य' क्रोधरहितस्य सतस्तिष्ठतः, किं न भवन्ति ईर्यादयः, ईरणमीर्या गमनमित्यर्थः, इह ईर्याकार्य कर्म र्याशब्देन गृह्यते, कारणे कार्योपचारात्, ईर्या आदिर्येषामात्मसंयमविराधनादीनां दोषाणां ते दियो न भवन्ति, तथा गुणाश्च-स्वाध्यायध्यानादयो भवन्ति, प्राप्तं तर्हि संयतस्य अगमनमेव श्रेय इत्यपवादमाह-न चावस्थाने खलूक्तगुणसम्भवान्न गन्तव्यमेव, किन्तु गन्तव्यमवश्यं-नियोगतः कारणे गुरुग्लानादिसम्बन्धिनि, यतस्तत्रागच्छतो दोषाः, ततः कारणे गच्छत आवश्यकी भवति ॥आह-कारणेन गच्छतः किं सर्वस्यैवावश्यकी भवति उत नेति?,उच्यते, नेति, कस्य तर्हि , तदुच्यतेआवस्सिआ उ आवस्सएहिं सक्वेहिं जुत्तजोगिस्स । मणवयणकायगुत्तिदियस्स आवस्सिया होइ ॥ ६९४ ॥ 04-04- 0 ३४८॥ -04- 4 Jain Education Inte For Pate & Personal use only law.jainelibrary.org
SR No.600044
Book TitleAvashyakasutram Part_2
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages308
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy