________________
वायणपडिसुणणाए उवएसे सुत्तअत्थकहणाए । अवितहमेअंति तहा पडिसुणणाए अतहकारो॥ ६८९॥
वाचना-सूत्रदानलक्षणा तस्याः प्रतिश्रवणा तस्यां वाचनाप्रतिश्रवणायां तथाकारी कार्यः, एतदुक्तं भवति-गुरौ वाचनां प्रयच्छति सति सूत्रं गृह्णता तथाकारः प्रयोक्तव्यः, तथा सामान्येनोपदेशे चक्रवालसामाचारीप्रतिबद्धे गुरोरन्यस्य वा सम्बन्धिनि तथाकारः कार्यः, तथा सूत्रार्थकथनायां, व्याख्याने इत्यर्थः, किं-तथाकारः कार्यः, तथाकार इति कोऽर्थ | इत्याह-अवितथमेतत् यद् ब्रूथ यूयमिति, न केवलममीष्वेवार्थेषु तथाकारः प्रयोक्तव्यः, किन्तु 'तहा पडिसुणणाए' इति प्रतिपृच्छोत्तरकालमाचार्ये कथयति सति प्रतिश्रवणायां च तथाकारः कार्यः, चशब्दलोपोऽत्र द्रष्टव्यः॥ साम्प्रतं स्वस्थाने स्वस्थाने इच्छाकारादिप्रयोक्तुः फलं प्रतिपादयति-- जस्स य इच्छाकारो मिच्छाकारो अपरिचिआ दोवि । तइओ अ तहकारो न दुल्लहा सुग्गई तस्स ॥६९०॥
यस्येच्छाकारो मिथ्याकारश्च द्वावपि परिचितौ तृतीयस्तु तथाकारः तस्य सुगतिर्न दुर्लभा ॥ साम्प्रतनावश्यकीनैपेधिकीद्वारद्वयावयवार्थमभिधित्सुः पातनिकागाथामाह
आवस्सयं च निन्तो जंच अइन्तो निसीहिअं कुणइ । एअंइच्छंनाउं गणिवर ! तुझंतिए निउणं ॥३९१॥ ___ आवश्यकी पूर्वोक्तशब्दार्था तां आवश्यकीं 'निंतो' निर्गच्छन् यां च 'अइंतो' आगच्छन् , प्रविशन् इत्यर्थः, नैषेधिकी करोति, एतत्-आवश्यकीनपैधिकीरूपं द्वयमपि स्वरूपादिभेदभिन्नं इच्छामि ज्ञातुं हे गणिवर ! युष्मदन्तिके निपुणं-सूक्ष्म एतज्ज्ञातुमिच्छामीति क्रियाविशेषणं ॥ एवं शिष्येणोके सत्याहाचार्य:
Jain Education International
For Private & Personal use only
www.jainelibrary.org