________________
C
आवश्यवेमाच्छादने-स्थगने भवति, मित्त्ययं वर्णो मर्यादायां-चारित्ररूपायां स्थितोऽहमित्यस्यार्थस्याभिधायकः, दुरित्ययं वर्णो मिथ्याश्रीमलय-18 जुगुप्स-निन्दामि दुष्कृतकारिणमात्मानमित्यस्मिन्नर्थे वर्तते, क इत्ययं वर्णः कृतं मया पापमित्येवमभ्युपगमार्थे वर्त्तते, 13 कारःतथासमवसरणे ड इत्ययं वर्णो डेवेमि-लंघयामि अतिक्रामामि तत्-कृतं पापं, केनेत्याह-उपशमेनेत्यस्मिन्नर्थे, एपः-अनन्तरोकार कारश्च
प्राकृतशैल्या मिथ्यादुष्कृतपदस्यार्थः, 'समासेन' सङ्केपेण ॥ आह-कथं प्रत्येकमक्षराणामुक्तार्थता !, पदवाक्ययोरेवार्थ॥ ३४७॥ दर्शनात् , उच्यते, इह यथा वाक्यैकदेशत्वात् पदस्यार्थोऽस्ति तथा पदैकदेशत्वाद्वर्णस्यापीत्यदोषः, अन्यथा पंदस्याप्यर्थ
शून्यत्वप्रसङ्गोऽक्षरेष्वर्धाभावात् , प्रयोगश्च-यत् यत्र प्रत्येकं न विद्यते तत्समुदायेऽपि न भवति, यथा सिकतासु तैलं,
इप्यते च वर्णसमुदायात्मकस्य पदस्यार्थस्तस्मादन्यथानुपपत्तेर्वर्णानामप्यर्थः प्रतिपत्तव्य इत्यलं प्रसङ्गेन । साम्प्रतं तथादूकारो यस्य दीयते तत्प्रतिपादनार्थमाह
कप्पाकप्पे परिनिटिअस्स ठाणेसु पंचसु ठिअस्स । संजमतवद्धगस्स उ अविगप्पेणं तहकारो ॥ १८८॥
कल्पो विधिराचार इति पर्यायाः, कल्पविपरीतस्त्वकल्पः, जिनस्थविरकल्पादि वा कल्पः चरकादिदीक्षा पुनरकल्पः, कल्पश्चाकल्पश्चेति समाहारो द्वन्द्वः कल्पाकल्पं तस्मिन् कल्पाकल्पे परि-समन्तात् निष्ठितः परिनिष्ठितो-ज्ञाननिष्ठां प्राप्तः तस्य, तथा तिष्ठन्त्येतेषु सत्सु शाश्वते स्थाने प्राणिन इति स्थानानि-महाव्रतान्यभिधीयन्ते, तेषु स्थानेषु पञ्चसु ॥३४७॥
स्थितस्य, महाव्रतयुक्तस्येत्यर्थः, संयमतपोभ्यामात्यः-संपन्नः संयमतपआन्यः, अनेनोत्तरगुणयुक्ततामाह, तस्य किमिदत्याह-'अविकल्पेन' निश्चयेन तथाकारः, कर्तव्य इति क्रियाध्याहारः॥ सम्प्रति तथाकारविषयप्रतिपादनार्थमाह
A MERICANCER
Jain Education inte
For Private & Personal use only
Mw.jainelibrary.org