SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ उपोद्घाते ॥ ४१ ॥ प्यवोचत - 'न खल्वारम्भ एव शिविकाद्यद्धायां वा घटादिकार्यं पश्याम' इति, तदपि स्थूलमतितासूचकं, प्रथमसमये हि न | घटादिकार्यमारब्धं, किन्तु चक्रमस्तकमृत्पिण्डारोपणादि, तच्च तस्मिन् समये दृश्यते, यत् नारब्धं घटादि तत्कथं दृश्यते १, * न खल्वन्यारम्भेऽन्यत् दृश्यते, यथा घटः पटारम्भे, शिवकादयोऽपि न घट इति तदद्धायामपि तस्य दर्शनाभावः, आह च - " अन्नारंभ अन्नं किह दीसउ जह घडो पडारंभे ? । सिवगादयो न घडओ किह दीसउ सो तदद्धाए ? ॥१॥ (४२१ वि० ) ” यञ्चैतदुक्तम्- 'किन्तु विवक्षितक्रियाकालपर्यन्ते' इति, तत्समीचीनमेव, विवक्षितकार्यनिमित्तभूत कार्यकोटिक्रियाकालपर्यन्त ★ एव तस्यारब्धत्वात् यस्तु लोको व्यवहरति- एतावान् घटस्य करणे कालो लग्न इति स घटार्थितया घटनिमित्तप्रतिस | मयोत्पन्न कार्यक्रियाकालं घटे लगयति, न च विवेचयति स्थूलमतित्वात् एवं भवानपि स्थूलमतितया लोकव्यवहार| पतितः सन् न किमपि विचारयति, आह च - " इसमय कज्ज कोडी निरविक्खो घडगयाभिलासोऽसि । पइसमयकज्जकालं थूलमइ !घडंमि लाएसि ॥ १॥ (४२३ वि० ) ” एवमत्रापि श्रवणादीनि प्रतिसमयभावीनि परस्परविलक्षणानि कार्याणि, ततो न तत्काले सम्यक्त्वोत्पादो ज्ञानोत्पादो वाऽन्यारम्भेऽन्यस्योत्पादाभावात्, यस्मिंस्तु समये सम्यक्त्वोत्पादारम्भो ज्ञानारम्भो वा तस्मिन् समये तदुत्पद्यत एवेति । सम्यक्त्वद्वारे व्यवहारनयमतेन सम्यग्दृष्टिरामिनिबोधिक ज्ञानस्य पूर्वप्रति6. पन्न एव नतु प्रतिपद्यमानकः, सम्यक्त्वज्ञानयोर्युगपल्लाभात्, तत्काले च क्रियाया अभावात्, तदभावे च प्रतिपद्यमा ॐ ॥ ४१ ॥ | नकत्वायोगादिति, निश्चयनयमतेन तु सम्यग्दृष्टिराभिनिवोधिकस्य पूर्वप्रतिपन्नः प्रतिपद्यमानकश्च लभ्यते, क्रियायाः कार्यनिष्ठायाश्च युगपद्भावाद्, एतच्च प्रागेव समर्थितमिति, ज्ञानद्वारे मतिश्रुतावधिमनःपर्याय केवलभेदात् पश्ञ्चधा ज्ञानं, Jain Education Internatio For Private & Personal Use Only निश्चयन्य वहाराम्या ज्ञानलाभा Jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy