SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ - नत्रापि व्यवहारनिश्चयनयाभ्यां विचारः, तत्र व्यवहारनयमतेन मतिश्रुतावधिमनःपर्यायज्ञानिनः आमिनिबोधिकस्य । पूर्वप्रतिपन्ना एव, नतु प्रतिपद्यमानकाः, न ह्येतन्मतन ज्ञानी सन् मतिज्ञानं प्रतिपद्यते किन्त्वज्ञानी इति, केवली न तु पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, नस्य क्षायोपशमिकज्ञानातीतत्वात् , तथा मत्यज्ञानश्रुताज्ञान विभङ्गज्ञानवन्तस्तु कदाचिद्विवक्षितकाले प्रतिपद्यमानका भवन्ति, न तु पूर्वप्रतिपन्नाः, निश्चयनयमतेन तु मतिश्रुतावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि सम्भवन्ति, सम्यग्दर्शनलाभसमय एव मत्यादिलाभस्य सम्भवात्, क्रियाकालनिष्टाकालयोश्चाभेदात्, मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव, न प्रतिपद्यमानकाः, पूर्व सम्यक्त्वलाभकाले प्रतिपन्नमतिज्ञानस्यैव पश्चात् यत्यवस्थायां मनःपर्यायज्ञानसद्भावात् , केवलिनां तूभयाभावः, मत्यादिज्ञानव्यवच्छेदेन केवलज्ञानभावात् , मत्याद्यज्ञानवन्तस्तु न पूर्वप्रतिपन्ना, नापि प्रतिपद्यमानकाः, प्रतिपत्तिक्रियाकाले मत्याद्यज्ञानाभावात् , क्रिया-1 कालनिष्ठाकालयोरभेदात्, अज्ञानभावे च प्रतिपत्तिक्रियाया अभावात् , दर्शनद्वारे चारचक्षुरवधिकेवलभेदात् दर्शन चतुर्की, तत्राद्यदर्शनत्रये लब्धिमङ्गीकृत्य पूर्वप्रतिपन्ना नियमतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोग* स्वाश्रित्य पूर्वप्रतिपन्ना एव, न नु प्रतिपद्यमानकाः, मतिज्ञानस्य लन्धित्वात् , लब्ध्युत्पत्तेश्च दर्शनोपयोगे निषिद्धत्वात्, 'सबाओ लद्धीओ सागारोवओगोवउत्तस्स उववजंति' इति वचनात् , केवलदर्शनिनां तभयाभावः, देशदर्शनव्यवच्छेदेन केवलज्ञानदर्शनभावात् , संयतद्वारे संयत आमिनिबोधिकस्य पूर्वप्रतिपन्नो नियमाल्लभ्यते, प्रतिपद्यमानको भजनया, ननु । सम्यक्त्वलाभावस्थायामेव मतिज्ञानस्य प्रतिपन्नत्वात् संयतः कथं प्रतिपद्यमानकोऽवाप्यते ?, सत्यमेतत् , केवलं योऽतिवि-17 - Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy