________________
उपोद्धाते
दीति
॥४२॥
द्वाराणि
16
LAKARRA+MASUAL
शुद्धत्वात् सम्यक्त्वं चारित्रं च युगपत्प्रतिपद्यते स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्याप्रतिपन्नत्वात् संयतः आभिनिबोधिकज्ञानस्य प्रतिपद्यमानको भवति, उक्तं चास्यैव मूलावश्यकचूर्णी-'नत्थि चरित्तं सम्मत्तविहूर्ण दसणं तु भणि-14 यज' भजनामेवाह-'सम्मत्तचरित्ताई जुगवं पुर्व च सम्मत्तं,' उपयोगद्वारे उपयोगो द्विधा-साकारोऽनाकारश्च, तत्र पञ्च ।। ज्ञानानि त्रीण्यज्ञानानि साकारः, चत्वारि दर्शनानि अनाकारः, तत्र साकारोपयोगे पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु विवक्षितकाले भाज्याः, अनाकारोपयोगे तु पूर्वप्रतिपन्ना एव, नतु प्रतिपद्यमानकाः, अनाकारोपयोगे , लब्ध्युत्पत्तेरभावात् , आहारद्वारे आहारकाः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानास्तु विकल्पनीयाः, विवक्षितकाले। अनाहारका अपान्तरालगतौ पूर्वप्रतिपन्नाः सम्भवन्ति, प्रतिपद्यमानकास्तु न भवन्त्येव, अधुना भाषकद्वारम्-तत्र भाषालब्धिसम्पन्ना भाषकाः, ते भाषमाणा अभाषमाणा वा पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु विवक्षितकाले भज-2 नीयाः, भाषालब्धिशून्याश्चोभयविकलाः, ते ह्येकेन्द्रिया एव, तेषां चोभयाभावः प्राग्वत् । परीचद्वारे परीत्ताः-प्रत्येक शरीरिणः परीत्तीकृतसंसारावा, परीत्तीकृतसंसारा नाम स्तोकावशेषसंसाराः, एते उभयेऽपि पूर्वप्रतिपन्नाः नियमतो लभ्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, अपरीत्तास्तु साधारणशरीरिणोऽपार्द्धपुद्गलपरावादप्युपरि संसारावा, ते मिथ्याष्टित्वा-10 दुभयेऽप्युभयविकला।पर्याप्तकद्वारेपडिराहारादिभिः पर्याप्तिभिर्ये पर्याप्ताःते पूर्वप्रतिपन्ना नियमतो विद्यन्ते, विवक्षितकाले प्रतिपद्यमानकास्तु भजनीयाः, अपर्याप्तकास्तु षट्पोत्यपेक्षया पूर्वप्रतिपन्नाः सम्भवन्ति, न वितरे । सूक्ष्मद्वारे सूक्ष्माः खलुभयविकला, बादरास्तु पूर्वप्रतिपन्ना नियमतः सन्ति, इतरे तु विवक्षितकाले भाज्या:, अधुना संझिदारं-तत्रेह
2015
*
&
+7
Jain Education Inter
For Private & Personal use only
I
ww.jainelibrary.org