SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ संज्ञिनो दीर्घकालिकोपदेशेन परिगृह्यन्ते, ते च पूर्वप्रतिपन्ना नियमतो लभ्यन्ते, इतरे तु भजनीयाः विवक्षिते काले, असज्ञिनस्तु प्रतिपन्नाः सम्भवन्ति नत्वितरे इति । भव इति द्वारं, तत्रभवसिद्धिकाः संज्ञिवत् , अभवसिद्धिकास्तुभयशून्याः। चरमद्वारे चरमो भवो भविष्यति येषां ते अभेदोपचाराच्चरमाः, ते च पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु विवक्षितकाले भाज्या:, अचरमास्तूभयविकलाः, आभिनिवोधिकज्ञानमेतेषु गत्यादिमार्गणास्थानेषु माय॑ते, तच्च मार्गितमुक्तप्रकारणेति ॥ साम्प्रतमाभिनिवोधिकजीवद्रव्यप्रमाणमुच्यते-तत्र प्रतिपत्तिमङ्गीकृत्य विवक्षितकाले कदाचिद्भवन्ति | कदाचिन्नेति, यदि भवन्ति तर्हि जघन्यत एको द्वौत्रयो वा उत्कर्षतस्त क्षेत्रपल्योपमासख्येयभागप्रदेशराशिप्रमाणाः, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासोयभागप्रदेशराशिप्रमाणाः उत्कर्षतस्तु तेभ्यो विशेषाधिकाः, उक्तं च|"खेत्तपलिओवमासंखभाग उक्कोसतो पवज्जेजा। पुवपवन्ना दोसुवि पलियासंखेजइमभागा॥१॥” (वि०४२९) अत्र 'दोसु. वित्तिद्वयोरपि पदयोर्जघन्यपदे उत्कृष्टपदे च, नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकं द्रष्टव्यं, अन्यथोत्कृष्टपदत्वायोगात् ॥ इदानी क्षेत्रद्वारम्-तत्र नानाजीवानगी कृत्य सर्वेऽप्याभिनिबोधिकज्ञानिन एकत्र पिण्डिता लोकासङ्ख्येयभागमेव व्याप्नु. वन्ति, आह च मुलटीकाकृत्-"सवे एवाभिनिवोधिकज्ञानिनो लोकस्यासययभागे वर्त्तते" इति, एकजीव स्त्विलिकागत्या गच्छन्नू मनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु रजुप्रमाणेषु वर्तते, तेभ्यो वाऽऽगच्छन् , अधस्तु षष्ठीं पृथिवीं गच्छन् ततो वा प्रत्यागच्छन् पञ्चसु चतुर्दशभागेषु, नातः परमधः क्षेत्रमस्ति, यस्मात सम्यग्दृष्टेरधः सप्तमनरकगमनं प्रतिषिद्धं, षष्ठीमपि पृथिवीं यावत्सैद्धांतिकमतेन विराधितसम्यक्त्वो गृहीतेनापि क्षायोपशमिकेनं सम्यक्त्वेन कश्चिदुत्पद्यते, तत उक्त-: मा.सू. ८ Jain Education Inter For Private & Personal Use Only ainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy