________________
PASCASSAGACANCCAKACTO+C%
नारंभेञ्चिय दीसइन सिवादद्धाइ दीसइ तदंते । इय न सवणाइकाले नाणं जुत्तं तदंतमि ॥३॥ (४१५-६-७ वि०) एवमुक्त। निश्चयनय आह-नाजातं खलु जायते किञ्चिदपि, अभावत्वात्, खपुष्पवद्, विपक्षे बाधकं प्रमाणं खरविषाणादेरप्युत्पत्तिप्रसङ्गोऽजातत्वाविशेषाद्, आह च भाष्यकृत्-"निच्छइओ नाजायं जायभावत्ततो खपुष्कं व । अह व अजायं जायइ जायउ तो खरविसाणपि ॥१॥ (४१८ वि०)" योऽपि कृतत्वाविशेषात् सदाकरणप्रसङ्ग इति दोष आपादितः स इतरत्रापि समानः, तथाहि-यद्यसत् क्रियते तर्हि नित्यमेव क्रियतामसत्त्वाविशेषात्, न च वाच्यं कार्योत्पत्ती विरमणभावात् सदाकरणाप्रसङ्ग इति, कार्यस्यैवोत्पत्त्ययोगात्, खरविषाणस्येवात्यन्तासत उत्पादयितुमशक्यत्वात् , तथा च सति क्रियाया अपि वैफल्यं, क्रियाफलस्य कार्योत्पादस्यासम्भवात् , यदप्युक्तं 'सर्वमपि कार्य घटादि पूर्वमभूतं भवत् दृश्यते, नतु भूतमपि,' तदप्यसम्यक, अभूतं हि यदिभवत् दृश्यते तर्हि खरविषाणमपि किं नोपलभ्यते !, प्रागसत्वाविशेषात् , यदप्यवादीत् 'क्रियाकालनिष्ठाकालयोरभेदस्याभावादिति, तदप्यश्लील, क्रियाकालनिष्ठाकालयोरभेदस्य व्यवस्थितत्वात् , अन्यथा कार्यकाले न क्रियाभाव इति क्रियाया अभावाविशेषात् पूर्ववत् कार्यानुत्पत्तिप्रसङ्गः, एवं च यदुध्यते 'प्रत्यक्षत एव घटादिक्रियाकालस्य दीर्घतयोपलभ्यमानत्वादिति तद् बालिशजल्पितं, प्रतिसमयं ह्यन्यत् अन्यत् कार्यमुपजायते, तथाहि-शिवकोऽन्यत्कार्यमन्यतमत् स्थासोऽन्यत् कुशूल इत्यादि, ततो यदि परस्परविलक्षणानां प्रतिसमयान्यान्योत्प
धमानकार्याणां दीर्घः क्रियाकालो दृश्यते ततोघटस्य किमायातं ?, नहि शेषकार्यक्रियाकालो घटकार्य क्रियाकालः, उक्तं च#“पइसमउप्पण्णाणं परोप्परविलक्खणाण सुबहूणं। दीहो किरियाकालो जइ दोसइकिं च (थ) कुंभस्स५१(४२०वि०)" यद
Jain Education Intel
For Private & Personal Use Only
K
ainelibrary.org