________________
HESARKARKIAA%ERS
यास्तु करणापर्याप्सावस्थायां पूर्वभवायातं सास्वादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपक्षाः सम्भवन्ति, नतु प्रतिपद्यमानकाः, एकेन्द्रियास्तुभयविकलाः, 'उभयाभावो एगिदिएसु संमत्तलद्धीए' इतिवचनात् । तथा 'काए'इति कायानधिकृत्य विचायेते, पृथिव्यशेजोवायुवनस्पतित्रसकायभेदात् कायाः षट्, तत्र सकाये पूर्वप्रतिपन्ना नियमतो विद्यन्ते, प्रतिपद्यमानास्तु भाज्याः, शेषकायेषु तु पृथिव्यादिषु पञ्चसु उभयाभावः, एतच्च सिद्धान्ताभिप्रायेण, कार्मग्रन्थिकाभिप्रायेण लब्धिपर्याप्तबादरपृथिव्यवनस्पतिकरणापर्याप्तेषु पूर्वप्रतिपन्नाः सम्भवन्ति, सास्वादनसम्यक्त्वस्य तदभिप्रायेण तेषु भावात्, इतरे तु सर्वथा नैव, तेजोवायवस्तूभयविकला एव । तथा 'जोए'इति योगानधिकृत्य विचार्यते-योगात्रयः, तद्यथा-मनोयोगो वाग्योगः काययोगश्च, तत्र त्रिषु योगेषु समुदितेषु पञ्चेन्द्रियवद्वक्तव्यं, मनोरहितवाग्योगिषु विकलेन्द्रियवत, केवलकाययोगिष्वेकेन्द्रियवत् । तथा 'वेए'इति वेदानधिकृत्य विचारणा, वेदाश्च त्रयः, तद्यथा-खीवेदः पुरुषवेदो नपुंसकवेदश्च, तत्र त्रिष्वपि वेदेषु विवक्षितकाले पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भाज्याः, कषायाः क्रोधमानमायालोभाख्याः प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदभिन्नाः, तत्राद्येष्वनन्तानुबन्धिषु क्रोधादिषु सास्वादनसम्यक्त्वमङ्गीकृत्य पूर्वप्रतिपन्नो लभ्यते, न प्रतिपद्यमानकः, शेषेषु तु द्वादशकषायेषु पूर्वप्रतिपन्ना नियमतः सन्ति प्रतिपद्यमानकास्तु भाज्याः, तथा 'लेसासु'इति लेश्यासु चिन्त्यते, तत्र श्लेषयन्त्यात्मानमष्टविधेन कर्मणेति लेश्याः, कायाद्यन्यतमयोगवतः कृष्णादिद्रव्यसम्बन्धादात्मनः कृष्णादिपरिणामाः, तत्रोपरितनीषु तिसृषु लेश्यासु पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानकास्तु भाज्याः, आद्यासु कृष्णादिकासु तिसृषु पूर्वप्रतिपन्नाः सम्भवन्ति न वितरे, सम्य
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International