SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter तथा अन्वयधर्मान्वेषणं मार्गणा, व्यतिरेकधर्मालोचनं गवेषणा, तथा संज्ञानं संज्ञा- व्यञ्जनार्थावग्रहोत्तरकालो मतिविशेषः, स्मरणं स्मृतिः- पूर्वानुभूतार्थालम्बनप्रत्ययः, मननं मतिः कथञ्चिदर्य परिच्छित्तावपि सूक्ष्मधर्मपर्यालोचनरूपा बुद्धि:, तथा प्रज्ञानं प्रज्ञा - विशिष्टक्षयोपशमजन्या प्रभूतवस्तुगतयथावस्थितधर्मालोचनरूपा मतिः, सर्वमिदमामिनिबोधिकं, मतिज्ञानमित्यर्थः, एवं किञ्चिद्भेदाद्भेदः प्रदर्शितः, परमार्थतस्तु सर्व एवैते मतिवाचकाः पर्यायशब्दाः । तदेवं तत्त्वभेदपर्यायैर्मतिज्ञानस्वरूपं व्याख्याय सम्प्रति नवभिरनुयोगद्वारैः पुनस्तद्रूपनिरूपणार्थमाह "संतपयपरूवणया दवपमाणं च खित्तफुसणा य । कालो अ अंतर भागो भावे अप्पाबहुं वेव ॥ १३ ॥ गइ इंदिए य काए जोए वेए कसायलेसासु । सम्मत्तनाणदंसण संजय उवयोग आहारे ॥ १४ ॥ भाग-परित - पज्जत्त सुहुम सन्नी य होइ भवचरिमे । आभिणिबोहियनाणं मग्गिज्जइ एस ठाणेसु ॥ १५ ॥ सच्च तत्पदं च सत्पदं तस्य प्ररूपणं-गत्यादिद्वारेषु विचारणं सत्पदप्ररूपणं सत्पदप्ररूपणस्य भावः -सत्पदप्ररूपणशब्दस्य प्रवृत्तिनिमित्तं सत्पदप्ररूपणता, तदेव सत्पदप्ररूपणमिति भावः, किमुक्तं भवति ?- मतिज्ञानमिति यत्सत्पदं तस्य गत्या - | दिभिर्द्वारैः प्ररूपणमिति, अथवा सद्विषयं पदं सत्पदं तदेव मतिज्ञानमितिरूपं पदं, मतिज्ञानस्य सत्त्वात् प्रक्रान्तत्वाच्च, शेषं पूर्ववत्, नन्वसत्पदस्यापि किं प्ररूपणा क्रियते येनेदमुच्यते- 'सत्पदप्ररूपणे 'ति १, उच्यते, क्रियते खलु खर४ विषाणादेरप्यसत्पदस्य प्ररूपणा, ततः सङ्ग्रहणमिति, अथवा सन्ति च तानि पदानि च स्थानानि सत्पदानि गत्यादीनि तैः प्ररूपणं मतेः सत्पदग्ररूपणं, शेषं पूर्ववत्, द्रव्यप्रमाणं जीवप्रमाणमिति वक्तव्यं किमुक्तं भवति ? -एकस्मिन् समये For Private & Personal Use Only Jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy