________________
आ. सू. ७
Jain Education Intern
| पराहन्ति पराघाताच्च शब्दपरिणामं भजन्ते ततो द्वितीयसमये तानि प्रसरमधिरोहन्ति मन्धानं साधयन्ति, तृतीयसमये तु तदन्तराला पूरणात् सकललोकमापूरयन्ति, उक्तं च - "न समुग्धायगईऍ मीसयसवणं मयं च दंडंमि । जइ तोवि तीहिं पूरइ समएहिं जओ पराघातो ॥१॥ (३९२ वि०)” अथ जैनसमुद्घात इव चतुर्भिरेव समयैर्भाषयाऽपि लोकापूरणं भविष्यति, ततः को दोषः ?, तदसमीचीनं, सम्यसिद्धान्तापरिज्ञानात्, जैनसमुद्घाते हि जीवप्र देशा एव स्वरूपेण लोकमापूरयन्ति, न पुनस्तत्र कस्यापि पराघातोऽस्ति, ततो न तत्र द्वितीयसमये मन्थाः, किन्तु कपाट एव केवलः, अन्यच्च - केवली भवोपग्राहि कर्मणामुपघाताय केवलिसमुद्घातमारभते, स च केवलचक्षुषा परिभाव्यमान इत्थमेव क्रियमाणस्तेषां भवो| पग्राहिकर्मणामुपघाताय प्रभवति, नान्यथा, यदिवा दण्डकपाटादिक्रमेणैव जीवप्रदेशैः सकललोकपूरणं भवति, नान्यथा, | तथास्वाभाव्यादिति केवलिसमुद्घातस्य चतुःसमयता, भाषापुद्गलानां त्वनुश्रेणिगमनं पराघातेन द्रव्यान्तरवासक| तास्वभावश्च सकललोकव्यातौ हेतुः, ततः प्रथमसमय एव ऊर्ध्वाधो दण्डे कृते द्वितीयसमये चतसृष्वपि दिक्षु अनुश्रेणिगमनात् | पराघातेन तदन्यद्रव्यवास कत्वाच्च ते मन्धानं साधयन्ति, तृतीये तु समये खन्तराला पूरणतः समस्तलोकव्याप्तिरिति त्रिसमयतैवात्रापद्यते, न चतुःसमयतेति, अथ योऽसावचित्तमहास्कन्धः प्रज्ञापनादिषु वर्ण्यते स जीव प्रदेशापूरणात्मको न भवत्यचित्त महास्कन्धत्वात्, किन्तु पुद्गलमयः, ततो यथाऽसौ पुद्गलमयोऽपि नियमाच्चतुःसामयिक एवं, एवं भाषयाऽप्यापूरणं लोकस्य चतुःसामयिकमेव भविष्यति, न त्रिसामयिकमिति को दोषः ?, तदयुक्तम्, अचित्तमहास्कन्धो हि विश्वसा परिणामेन भवति, विश्वसापरिणामश्च यद्यपि विचित्रस्तथापि स केवलचक्षुषा सर्वदेव तथास्वाभाव्यादित्थमे
For Private & Personal Use Only
wwwkw
www.jainelibrary.org