________________
लोकमापूरयन्ति, आह च भाष्यकृत् - "कोई मंदपयतो निसिरह सयलाई सबदबाई | अनो तिवपयतो निसिरइ सो + मिंदिरं ताई ॥ १ ॥ गंतुमसंखेज्जाओ अवगाहणवग्गणा अभिन्नाई । भिज्यंति धंसमिति य संखेज्जे जोयणे गंतुं ॥२॥ भिन्नाई सुहुमयाए अनंतगुणवड्डियाई लोगतं । पार्श्वेति पूरयंति (य) भासाएँ निरंतरं लोगं ॥ ३॥ (३८०-१-२)” अत्र 'असंखेज्जाओं अवगाहणवग्गणाओं' इति अवगाहना नाम एकैकस्य भाषाद्रव्यस्कन्धस्याधारभूता असङ्ख्येयप्रदेशात्मक क्षेत्रविभागरूपास्तासां वर्गणा अवगाहनावर्गणाः असङ्ख्येया- असङ्ख्येययोजनप्रमिताः, अत एव प्रागुक्तं असङ्ख्येयानि योजनानि गत्वेति, शेषं सुगमं, चतुःसमयग्रहणे त्रिपञ्चसमयग्रहणमपि प्रतिपत्तव्यं, तुलादीनां मध्यग्रहणे आद्यन्तग्रहणवत्, विचित्रा वा सूत्रगतिः, उक्तं च“उसमयमज्झगहणे तिपंचगहणं तुला इमज्झस्स । जह महणे पसग्गहणं चित्ता व सुत्तगई ॥१॥” (३८७वि.) अत्र कथं त्रिभिः समयैर्लोको भाषया निरन्तरमापूरितो भवति ?, उच्यते, इह यदा लोकमध्यस्थो वक्ता भवति तदा तेन निसृष्टानि भाषापरिणतानि द्रव्याणि प्रथमसमय एव पसु दिक्षु लोकान्तमनुधावति, जीवसूक्ष्मपुद्गलानामनुश्रेणिगमनात्, द्विती| यसमये तु त एव षट् दण्डाः चतुर्द्दिक्षु एकैकशोऽनुश्रेण्या वासितद्रव्यैः प्रसरन्तः षट् मन्धानो भवति, तृतीयसमये तु | पृथक् पृथक् तदन्तरालापूरणात् पूर्णो भवति लोकः, एवं त्रिभिः समयैर्भाषया लोकः स्पृष्टो भवति, यदा तु स्वयंभूरमणपरतटवर्त्तिनि लोकान्ते अलोकस्यात्यन्तनिकटीभूय भाषको वक्ति त्रसनाड्या वा वहिश्चतसृणां दिशामन्यतमस्यां दिशि तदा चतुर्भिः समयैरापूर्यते, कथं १, उच्यते, इह यदा त्रसनाच्या बहिर्व्यवस्थितो वक्ति तदा एकेन समयेनान्तर्नाडी शब्दद्रव्याण्यनुप्रविशन्ति, शेषसमयभावना च पूर्ववत्, यदापि लोकान्ते स्वयम्भूरमणपरतटवर्त्तिनि चतसृणां दिशाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org