________________
वान् वैक्रियः आहारकवान् आहारकः, असौ औदारिकादिर्ग्रहाति-आदचे शब्दपायोग्यानि द्रव्याणीति गम्यते, गृहीत्वा । भाषात्वेन परिणमय्य मुश्चति-निसृजति भाष्यत इति भाषा तां-शब्दपरिणतद्रव्यसंहति, किंविशिष्टामित्याह-'सत्या' इह सन्तो-मुनयस्तेषामेव मुक्तिमार्गप्रवृत्ततया तात्त्विकशिष्टत्वात् तेभ्यो हिता-निरवद्यानुष्ठानरूपतया मुक्तिमार्गानुकूलत्वादुपकारिणी सत्या, इह यत् यस्मै हितं तचत्र साध्विति साधुत्वविवक्षायां 'तत्र साधा'विति यः प्रत्ययः, अथवा सन्तो-मूलोत्तरगुणास्तेषामेव मुक्तिमार्गतया अतिप्रशस्यत्वात् तेभ्यो हिता तदाराधनात् पूर्ववत्साधुत्वविवक्षायां यः प्रत्ययः, यदिवा सन्तो-जीवादयः पदार्थास्तेभ्यो हिता यथावस्थिततत्स्वरूपप्रत्यायकत्वात् सत्या, अत्रापि पूर्ववत् यः प्रत्ययः, यथा अस्ति जीवः सदसपो देहमात्रव्यापीत्यादिरूपा, तद्विपरीताऽसत्या, यथा नास्ति जीवः एकान्तसपो वेत्यादिरूपा, तथा सत्यामृषाधवखदिरपलाशादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमित्यादिरूपा, अत्र हि कतिपयाशोकवृक्षाणां सद्भावात्सत्यता अन्येषामपि धवादीनां सद्भावान्मृषता,व्यवहारनयमतापेक्षयेदमुच्यते, परमार्थतः पुनरियमसत्येति, यथाऽभि-12
हितार्थायोगात्, तथा या नसत्या नापि मृषा साअसत्यामृषा.इह विप्रतिपत्ती सत्यां वस्तुप्रतितिष्ठाशया सर्वज्ञमतानुसारेण दया भाषा प्रोच्यते यथा अस्ति जीवः सदसद्रूप इत्यादि सा किल सत्या परिभाषिता, आराधकत्वात् , यया पुनर्विप्रति
पत्तौ सत्यां सर्वज्ञमतोत्तीर्णमुच्यते यथा नास्ति जीव एकान्तनित्यो वेति साऽसत्या, विराधनीत्वात् , या पुनर्वस्तुप्रतितिछासामन्तरेण स्वरूपमात्रप्रतिपादनपरा यथा हे देवदत्त ! घटमानय गां देहि मह्यमित्यादिरूपा सा असत्यामृषा, इयं हि स्वरूपमात्रप्रतिपादनफलत्वात् न यथोक्तलक्षणा सत्या नापि मृषा, ततः असत्या चासावमृषा च असत्यामृषेति, आसां |
Jain Education
For Private & Personal Use Only
Givw.jainelibrary.org