SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ उपोद्घाते ॥ ३४ ॥ Jain Education intel जीवदेशस्योत्तमाङ्गादिसम्बद्धात्मदेशेभ्यो भेदोऽभेदो वा १, यदि भेदस्तर्हि नियमात् जीवस्य सप्रदेशता, भिन्नाकाशदेशव|र्त्तिकरचरणाद्यवयवसम्बद्ध प्रदेशभावात्, अथाभेदस्तर्हि सर्वेषामपि करचरणाद्यवयवानामेकत्वप्रसङ्गः, एकस्मादप्रदेशात् जीवादभिन्नत्वात्, तथाविधैकविवक्षितावयवस्वरूपवत्, उक्तं च - "करचरणाइसु जोगो (गा) न य अपदेसे उ ( सोत्ति) | होइ विष्णेओ । अपएसंमि य पावइ करचरणाईणमेगत्तं ॥ १॥ जो चेव उ करदेसे स एव जं होइ चरणदेसेवि । तो एगत्तं भेदे सपएसो नियमतो होइ ॥ २॥ (३६५-६ धर्म ०) यैर्जीवप्रदेशः किं करोतीत्यत आह- यैस्तु गृह्णाति, तुशब्दो विशेषणार्थः, किं विशिनष्टि १ - न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सतीति, किं पुनर्गृह्णातीत्यत आह- 'ग्रहण' गृह्यत इति ग्रहणम्, 'कृद् बहुलमिति वचनात् कर्म्मण्यनद्, शब्दद्रव्यसमूहमित्यर्थः, ततो गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः, भाषण क्रियाविशिष्ट इत्यर्थः, अनेन निष्क्रियात्मवादव्यवच्छेदमाह, सति तस्मिन्निष्क्रियत्वेनाप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रस केः, किं भाषत इत्याह- भाष्यते इति भाषा तां भाषां, ननु ततो भाषते भाषकः इत्यनेनैव गतार्थत्वात् भाषाग्रहणमतिरिच्यते, तदसम्यक्, अभिप्रायापरिज्ञानात्, भाषाग्रहणं हि भाष्यमाणैव भाषा, न पूर्व नापि पश्चादित्यस्यार्थस्य ख्यापनार्थ मतो नातिरिक्तमित्यदोषः ॥ अथ कतमत् त्रिविधं शरीरं यद्गतैजींवप्रदेशैर्वागद्रव्याणि गृहीत्वा भाषको भाषत इत्यत आह ओरालियवेडवियआहारतो गेण्हह मुयइ भासं । सचं सच्चामोसं मोक्षं च असचमोसं च ॥ ९ ॥ - इह औदारिकशब्देन शरीरतद्वतोरभेदोपचारात् मत्वर्थीयलोपात् (वा) औदारिकशरीरवान् जीव एव गृह्यते, एवं वैक्रि For Private & Personal Use Only त्रिविषशरीरेण प्र हणं वाचा सत्यादि भेदाः गा. ८-९ ॥ ३४ ॥ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy