________________
Jain Education Inter
कायिकेनैव निसृजतीत्यापन्नं अनिष्टं चैतदिति, तदसम्यकू, अभिप्रायापरिज्ञानात्, इह तनुयोगविशेष एव वाग्योगो मनोयोगश्चेति व्यवहियते, सर्वथा काय व्यापारशून्यस्य सिद्धस्येव तयोरसम्भवात्, तथाहि - आत्मनः शरीरव्यापारे सति | येन व्यापारविशेषेण शब्दद्रव्योपादानं करोति स कायिको योगः, येन तु कायसंरम्भेण तान्येव मुञ्चति स वाचिकः, | येन तु मनोद्रव्याणि मनस्त्वेन व्यापारयति स मानसः, ततः काययोग एव संव्यवहारार्थे त्रिधा विभक्त इत्यदोषः, एतदेवाक्षेपपुरस्सरं भाष्यकृदाह - " गेण्हेज काइएणं किह निसिरइ वाइएण जोगेण ? । को वाऽयं वायोगो ? किं वाया ? कायसंरंभो ॥१॥ वाया न जीवजोगो पोग्गलपरिणामतो रसादिव । न य ताए निसिरिज्जइ सच्चिय निसिरिज्जए जम्हा ॥२॥ अह सो तणुसंरंभो निसिरइ तो काइएण वत्तवं । तणुजोगविसेसच्चिय मणवइजोगत्ति जमदोसो ॥ ३॥ (३५६-७-८वि.) अथवा कायव्यापारेणाहृतो यो वागूद्रव्यसमूहः तदुपष्टम्भेन य उपजायते वा निसर्गहेतुजींव व्यापारः स वाचिको योगः, तथा कायव्यापारेणैवाहृतो योऽसौ मनोद्रव्यसमूहः तदुपष्टम्भेनोपजायमानो मनोद्रव्याणां चिन्तन हेतुर्व्यापारविशेषः स मनोयोगः, आह च - " अहह्वा तणुजोगाहियवइदवसमूहजीववावारो । सो वइजोगो भण्णइ वाया निसिरिज्जई | तेणं ॥ १ ॥ तह तणुवावाराहियमणदवसमूहजीववावारो । सो मणजोगो भण्णइ मन्नइ नेयं जतो तेणं ॥ २ ॥ (३६३-४ वि . ) ततः साधूकं - 'वाचिकेन योगेन निसृजती 'ति । तथा 'एकान्तरं गृह्णात्येकान्तरं च निसृजती'त्यत्र केचित् प्रथमसमये गृह्णाति | द्वितीये तु प्रथमसमयगृहीतानि मुञ्चति तृतीये समये पुनः गृह्णाति चतुर्थे समये तृतीयसमयगृहीतानि मुञ्चतीत्येवमेकैकं व्यव| हितमेकान्तरमिति व्याख्यानयन्ति तेषां विच्छिन्नरत्नावलीकल्पो ध्वनिरापद्यते, अन्तरान्तरग्रहणसमयेषु सर्वेष्वप्यश्रव
For Private & Personal Use Only
ainelibrary.org