________________
भाष्यते इति भाषा - वक्त्रा शब्दतयोत्सृज्यमाना द्रव्यसंहतिस्तस्याः समश्रेण यो भाषासमश्रेणयः, समग्रहणं विश्रेणिव्यवच्छेदार्थ, श्रेणयो नाम क्षेत्रप्रदेशपङ्कयोऽभिधीयन्ते, ताश्च सर्वस्यैव भाषमाणस्य षट्सु दिक्षु विद्यन्ते यासूत्सृष्टा सती भाषा प्रथमसमय एव छोकान्तमनुधावति, उक्तं च-- “सेढी पएसपंती वदतो सबस्स छद्दिसं ताओ। जासु विमुका धावइ भासा पढमंमि समर्थमि ॥१॥ (३५२ वि . ) ” ता इतो गतः प्राप्तो भाषासमश्रेणीतः भाषासमश्रेणीव्यवस्थित इत्यर्थः 'शब्द' भाषात्वेन परिणतं पुद्गलराशि 'यं' पुरुषाश्वादिसम्बन्धिनं 'शृणोति' परिच्छेद्यतया गृह्णाति यत्तदोर्नित्याभिसम्बन्धात् तं मिश्रकं शृणोति, किमुक्तं भवति १- भाषकव्युत्सृष्टशन्दद्रव्याणि तद्वासितापान्तरालस्थद्रव्याणि चेत्येव मिश्रं | शब्दद्रव्यराशिं शृणोति, न तु वासकमेव वास्यमेव वा केवलमिति, 'वीसेठी पुण' इत्यादि, मञ्चाः क्रोशन्तीत्यादिवत् आधेये आधारोपचारात् विश्रेणिव्यवस्थितः श्रोताऽपि विश्रेणिरुच्यते, विश्रेणिः पुनः श्रोता शब्द, पुनः शब्दग्रहणं पराघातवासितद्रव्याणामपि तथाविधशब्दपरिणामख्यापनार्थ, शृणोति, 'नियमात् 'नियमेन 'पराघाते' वासनायां सत्यां, एतदुकं भवति यानि भाषकोत्सृष्टाणि द्रव्याणि झल्लर्यादिशब्दद्रव्याणि वा तैः पराघाते - वासना विशेषजनिते सति यानि | समुत्पन्नशब्दपरिणामानि द्रव्याणि तान्येव विश्रेणिस्थः शृणोति नतु भाषकाद्युत्सृष्टानि, तेषामनुश्रेणिगामित्वेन विदिग्गमनासम्भवात् न च कुड्यादिप्रतिघातस्तेषां विदिग्गतिनिमित्तं सम्भवति, लेष्वादिबादरद्रव्याणामेव तत्सम्भवात्, तेषां च सूक्ष्मत्वात् उक्तं च - "भासासम सेढी (ढिठि) ओ तभासामीसियं सुणइ सई । तद्दबभावियाई अन्नाई सुणेइ | विदिसित्थो ॥ १ ॥ (३५३वि.)” केन पुनर्योगेनैषां वाग्द्रव्याणां ग्रहणमुत्सर्गे वा ? कथं वेत्येतदाशज्ञा गुरुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org