________________
PIपुष्करवरार्द्ध मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसङ्कान्तौ प्रमाणाङ्गुलनिष्पन्नैः सातिरेकैरेकविंशतियोजनलझैर्व्यवस्थित
मादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे, तथा च तद्ग्रन्धः-"इगवीसं खलु लक्खा चउतीसं चेव तह सहस्साई।
तह पंचसया भणिया सत्तत्तीसा य अइरित्ता ॥१॥ इइ नयणविसयमाणं पुक्खरदीवड्डवासिमणुयाणं । पुर्ण य अवरेण शय पिहं पिहं होइ मणुयाणं ॥२॥" ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गुलेनापि घटते !, (न) प्रमाणाङ्गलेनापि
व्यभिचारात्, उक्तं च-“लक्खेहि एकवीसाएँ साइरेगेहिं पुक्खरद्धंमि । उदए पेच्छंति नरा सूरं उक्कोसए दिवसे ॥१॥ नयणिदियस्स तम्हा विसयपमाणं जहा सुए भणियं । आउस्सेहपमाणंगुलाण एक्केणवि न जुत्तं ॥२॥" (३४५-६वि.) सत्यमेतत् , केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं, न तु प्रकाशकविषयं, ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यत इति न कश्चिद्दोषः, कथमेतदवसीयत इति चेत्, उच्यते, पूर्वसूरिकृतव्याख्यानात् , सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियः, न यथाक्षरसन्निवेशमात्रं, पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकश्रुतस्य क्वचित्सद्धिप्तस्यार्थस्य महता विस्तरेण क्वचिद्विस्तरवतोऽप्यतिसङ्केपेणाभिधाने अक्तिनैः स्वमति (त्या) यथाव|स्थितार्थतया ज्ञातुमशक्यत्वात् , अत एवोक्तमिदमन्यत्र-"जं जह भणियं सुत्ते तहेव जइ तं वियालणा नस्थि । किं कालियाणुयोगो दिट्ठोदिटिप्पहाणेहिं? ॥१॥" तस्मात्पूर्वसूरिकृतव्याख्यानानाधिकृतग्रन्थविरोधः, आह च भाष्यकृत्-"सुत्ताभिप्पायोऽयं पयासणिजे तयं न ज पयासे । वक्खाणाउ विसेसो नहि संदेहादलक्खणया ॥१॥" (३४७वि.) अथोक्तप्रमाणं |विषयमुलक्ष्य कस्मात् श्रोत्रादि शब्दादिक न गृहाति?, उच्यते, सामर्थ्याभावात् , उत्कर्षतोऽपि हि श्रोत्रादीना
KrantiMorc
Jain Education International
For Private & Personal use only
www.jainelibrary.org