SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ * %ASRACT लक्खं अइरित्तं जोयणाणं तु॥२॥" (वि.३४०) ननु देहप्रमाणं समुच्छ्यालेन, देहाश्रितानि च इन्द्रियाणि, ततस्तेषां विषयपरिमाणमप्युच्छ्रयाङ्गलेन वक्तुमुचितं, कथमुच्यते आत्माङ्गुलेन!, नैष दोषः, यद्यपि हि नाम देहाश्रितानि इन्द्रियाणि तथापि तेषां । विषयपरिमाणमात्माङ्गुलेन,देहादन्यत्वाद् विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदाह-"नणुभणियमुस्सयगुलपमाणओ जीवदेहमाणाई।देहपमाणं तं चियन उइंदियविसयपरिमाणं ॥१॥"(वि०३४१) अत्र 'देहप्पमाणं तं चिय' इति यत् तत् उच्छ्याङ्गुलमेयत्वेनोकं तद्देहप्रमाणमात्रमेव, नत्विन्द्रियविषयपरिमाणं, तस्यात्माङ्गलप्रमयत्वात्, अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्याङ्गुलेन स्यात् ततः को दोष आपद्यत, उच्यते, पञ्चधनुःशतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः, तथाहि-यदरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलं, तच्च प्रमाणाङ्गुलमुच्छ्याङ्गुलसहस्रेण भवति, "उस्सेहङ्गुलमेगं हवइ पमाणकुलं सहस्सगुण"मितिवचनात्, ततो भरतसगरादिचक्रवर्तिनां या अयोध्यादयो नगयों ये च स्कन्धावारा आत्माङ्गुलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्याङ्गुलपमित्या अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणन सर्वेषामापयेत,"वारसहिं जोयणेहिं सोयं अइगिण्हए सह"मिति वचनात्, अथ च समस्तनगरब्यापी समस्तस्कन्धावारव्यापी च विजयढकादिशब्द आगमे प्रतिपाद्यते, तत एवमागमे प्रसिद्धः पञ्चधनु शतादिमनुष्याणां विषयव्यवहारो व्यवच्छेदं मा प्रापदित्यात्माङ्गलेनेन्द्रियविषयपरिमाणमवसातव्यं, नोच्छ्याङ्गुलेन, तथा चाह भाष्यकृ. त्-"जं तेण पंचधणुसयनरादिविसयववहारोच्छेओ।पावइ सहस्सगुणियं जेण पमाणङ्गुलं तत्तो॥१॥” (वि.३४२) अत्र तस्मादात्माङ्गुलेनैवेन्द्रियाणां विषयपरिमाणं नोत्सेधाङ्गुलेनेति उपसंहारवाक्यं (यत्) तत् स्वतः परिभावनीय, यदप्युक्तं प्राक् 'देहा AAAAACARE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy