________________
उपोद्धा
॥ २९ ॥
ऽप्याह - "पुट्ठे रेणुं व तणुंमि बद्धमप्पीकयं पएसेहिं । छिकाई चिय गिण्हइ सद्दद्दबाई जं ताई ॥ १ ॥ तह (बहु) सुहुमभावुगाई जं पडुयरयं च सोयविन्नाणं । गंधादी दवाई विवरीयाई जतो ताई ॥ २ ॥ फरसाणंतरमत्तप्पएसमीसीकयाई धिप्पंति । पडु| यरविण्णाणाई जं च न घाणाइकरणाई ॥३॥” (वि.३३७-९) नन्विदमुक्तं - योग्य देशावस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितं, तत्र कियान् चक्षुषो विषयः कियतो वा देशादागतं श्रोत्रादि गृह्णाति ?, उच्यते, श्रोत्रं तावत् शब्दं जघन्यतोऽङ्गुलासङ्ख्येयभागमात्राद्देशादुत्कर्षतस्तु द्वादशभ्यो योजनेभ्यः, चक्षुरिन्द्रियमपि जघन्यतोऽङ्गुलसङ्ख्येय भागमात्रावस्थितं पश्यति, | उत्कर्षतस्तु सातिरेकयोजनशतसहस्रव्यवस्थितं, घाणरसनस्पर्शनानि तु जघन्येनाङ्गुला सङ्ख्येयभागमात्रात् देशादागतं गन्धादि गृह्णन्ति, उत्कर्षतस्तु नवभ्यो योजनेभ्यः । नन्वङ्गुलं त्रिधा भवति, तद्यथा - आत्माकुलमुच्छ्रयाङ्गुलं प्रमाणाङ्गुलं च, तत्र 'जे णं जया मणूसा तेसिं जं होइ माणरूवं तु । तं भणियमिहायङ्गुलमणिअयमाणं पुण इमं तु ॥ १ ॥ इत्येवंरूपं आत्माङ्गुलं, "परमाणू तसरेणू रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो अट्ठगुणविवढिया कमसो ॥१॥" इत्यादिरूपमुच्छ्रयाङ्गुलं “उस्सेहङ्गुलमेगं हवइ पमाणङ्गुलं सहस्सगुणं । तं चैव दुगुणियं खलु वीरस्सायंगुलं भणियं ॥१॥" इत्येवंलक्षणं प्रमाणाङ्गुलं, तत्र आत्माङ्गुलेन प्रमीयते तत्तत्काले वापीकूपादिकं वस्तु, उच्छ्रयाङ्गुलेन नरतिर्यग्देवनै रयिकशरीराणि, प्रमाणाङ्गुलेन नगपृथिवीविमानानि, उक्तं च- "आयङ्गुलेण वत्युं उस्सेहपमाणतो मिणसु देहं । नगपुढविविमाणाइं मिणसु पमाणङ्गुलेणं तु ॥ १ ॥ " तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेन प्रतिपत्तव्यमाहोश्वित् उच्छ्रयाङ्गुलेन १, उच्यते, आत्माङ्गुलेन, तथा चाह चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत् - " अप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं । आयङ्गुलेण
Jain Education International
For Private & Personal Use Only
इन्द्रियाणां विषय
मानम्
।। २९ ।।
www.jainelibrary.org