________________
Jain Education int
तुपलम्भो वायुना सञ्चार्यमाणत्वात्, यद्येवं तर्हि शब्दस्य परमार्थतः स्थानं श्रोत्रादि यत्पुनराकाशेऽवस्थानं तद्वायुना सञ्चा येमाणत्वात्, तथाहि यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलं शब्दस्याश्रवणात् उक्तं च प्रज्ञाकरगुप्तेन - " यथा वा प्रेर्यते तूलमाकाशे मातरिश्वना । तथा शब्दोऽपि किं वायोः, प्रतीपं कोऽपि १ शब्दवित् ॥ ॥ १ ॥ " तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति । तथा रूप्यत इति रूपं तत्पुनः पश्यति -गृह्णाति उपलभते इतियावत्, अस्पृष्टं - अनालिङ्गितं गन्धादिवन्न सम्बद्धमित्यर्थः, तुशब्द एवकारार्थः, स चावधारणे, रूपं पुनः पश्यति अस्पृष्टमेव, चक्षुपोऽप्राप्यकारित्वात् एतच्च प्रागेव भावितं, पुनःशब्दो विशेषणार्थः, स चैतद् विशिनष्टि - अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितममरलोकादि, गन्ध्यते - आघायते इति गन्धः तं 'रस आस्वादने' रस्यतेऽनेनेति रसस्तं च स्पृश्यत इति स्पर्शः तं च चशब्दौ पूरणार्थी, 'बद्धस्पृष्ट' मिति वद्धं - आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः स्पृष्टं पूर्ववत् प्राकृ तशैल्या चेत्थमुपन्यासः 'वद्धपुट्ठे'ति, परमार्थतस्तु स्पृष्टं च तत् बद्धं च स्पृष्टवद्धमिति द्रष्टव्यं, आह-यद्वद्धं गन्धादि तत्स्पृष्टं भवत्येव अस्पृष्टस्य सम्बन्धायोगात्, ततः स्पृष्टशब्दोच्चारणं गतार्थत्वात् अनर्थकमिति, नैप दोषः, शास्त्रारम्भस्य सर्वश्रोत् साधारणत्वात् त्रिविधा हि श्रोतारः - केचिदुद्घटितज्ञाः केचिन्मध्यबुद्धयः तथाऽन्ये प्रपञ्चितज्ञाः, तत्र प्रपञ्चितज्ञानामनुग्रहाय गम्यमानस्याप्यभिधानमदोपायेति, प्रकृतभावार्थस्त्वयं गन्धादिद्रव्याणि स्वल्पानि स्थूलानि तदन्यावासकानि च घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षया अपटूनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिङ्गितानन्तरमात्मप्रदेशैरात्मीकृतं गृह्णाति, नाम्यवेत्येवं 'व्यागृणीयात्' प्रतिपादयेत्, प्रज्ञापकः स्वशिष्येभ्यः, एतदेव व्याख्यानं भाष्यकारो
For Private & Personal Use Only
X ww.jainelibrary.org