SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ उपोद्धाते शब्दस्थाम्वरगुणतानिरासः ॥२८॥ स्पर्शवन्तः शब्दाः, तत्सम्पर्के उपघातदर्शनाल्लोष्ठवत्, न चायमसिद्धो हेतुः, यतो दृश्यते सद्योजातबालकानां कर्णदेशाभ्यर्णगाढास्फालितझल्लरीझारकारश्रवणतः श्रवणस्फोटो, न चेत्थमुपघातकृत्त्वमस्पर्शवत्त्वे सम्भवति, यथा हि विहायसः, ततो विपक्षे गमनासम्भवान्नानैकान्तिकोऽपि, अतश्च स्पर्शवन्तः शब्दाः, तैरभिघाते गिरिगह्वरभित्त्यादिषु शब्दोत्थानात् लोटवत्, अयमपि हेतुरुभयोरपि सिद्धः, तथाहि-श्रूयते तीव्रप्रयत्नोच्चारितशब्दाभिघाते गिरिगहरादिषु प्रतिशब्दाः प्रतिदिक, ततः स्पर्शवत्त्वान्मूर्त एव शब्दः, 'रूपस्पर्शादिसन्निवेशो मूर्ति रिति वचनात् , ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् , अपिच-तदाकाशमेकमने वा !, यद्येक तर्हि योजनलक्षादपि श्रूयेत, आकाशस्यैकत्वेन शब्दस्य तद्गुणतया दरासन्नादिभेदाभावात्, अथानेकम्, एवं सति वदनदेश एव स विद्यत इति कथं भिन्नदेशवर्तिभिः श्रूयते, वदनदेशाकाशगुणतया तस्य श्रोतृगतश्रोत्रेन्द्रियाकाशसम्बन्धाभावात् , अथ च श्रोत्रेन्द्रियाकाशसम्बद्धतया तत्श्रवणमभ्युपगम्यते, तन्न श्रेयानाकाशगुणत्वाभ्युपगमः, नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः, शब्दस्य त्वाकाशमिति, तदयुक्तं, एवं सति पृथिव्यादीनामायाकाशाश्रितत्वेनाकाशगुणत्वप्रसक्तेः, अथ नाश्रयणमानं तद्गुणत्वनिवन्धनं, किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति, ननु कोऽयं समवायो नाम', एकलोलीभावेनावस्थानं यथा पृथिव्यादिरूपायो- रिति चेत्, न तर्हि शब्दस्याकाशगुणत्वम्, आकाशेन सहास्यैकलोलीभावेनाप्रतिपत्ते, अथाकाशे उपलभ्यमानत्वात् तद्गुणता शब्दस्य तर्हि तूलकादेरप्याकाशे उपलभ्यमानत्वात् तद्गुणता प्रामोति, अथ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे HEनामप्याकाशाश्रितत्वनाकानकोऽयं समवायो नाम २८॥ ANS. अथाकाशे उपलभ्यमानत Jain Education Inter For Private & Personal use only Viwww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy