SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Anne शब्द यथावस्थितं परिच्छिन्धुः,नच परिच्छिन्दन्ति, तस्मात्याता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यम्, इतवान्युपगन्तव्यमन्यथाक्रमग्रहणानुपपत्तेः, तथाहि-यद्यप्राप्ता एव शब्दा गृह्यन्ते तर्हि तेषां योग्यदेशाव॥स्थितानां समीपस्यैईरस्वैव प्रहणमेककाले भवेद, यथा चक्षुपायोपदेशावस्थानां घटपटादीनां, अथ च क्रमेण ग्रहणमनुभूयते, पूर्व समीपस्थैः पश्चाइरस्थैरिति, यदपि चोकं 'चाण्डालसर्शदोष' इति,तदपि चेतनाविकलपुरुषभाषितमिवासमी चीन, स्पर्शास्पर्शव्यवस्था हि लोके काल्पनिकी न पारमार्थिकी, तथाहि-यामेव भुवमग्रे चाण्डाला स्पृशन् याति तामेव है| पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतः चाण्डालं स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि न मवतीति न कश्चिदोषः, अन्यच्च४ यदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निबध्य वपुषि वा मृगमदचन्दनाधवलेपनमारचय्य विपणिवीथीमा गत्य चण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषःप्रामोतीति तद्दोषभयानासिकेन्द्रियमप्यप्राप्यकारि प्रतिपत्तव्यं, न चैतद्भवतोऽप्यागमे प्रतिपाद्यते, ततोबालिशजल्पितमिति कृतं प्रसङ्गेन । केचित्पुनः श्रोत्रेन्द्रियस्य प्राप्यकारितामप्यभ्युपगच्छन्तःशब्दस्याम्बरगुणत्वं प्रतिपन्नाः, तदश्लीलं, आकाशगुणतायां शब्दस्यामूर्त्तत्वप्रसक्तेः,यो हि यद्गुणःस तत्समानधर्मा, यथा ज्ञानमात्मनः, तथाहि-अमूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्चमेव, एवं शब्दोऽपि यद्याकाशगुणः तर्हि आकाशस्यामूर्तत्वात् शब्दस्यापि तद्गुणत्वेनामूर्तता भवेत्, न चासौ युक्तिसङ्गता, तल्लक्षणायोगात्, मूर्चिविरहो ह्यमूर्जता, नच शब्दानां मूर्तिविरहःस्पर्शवत्त्वाद, तथाहि Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy