SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ शब्दादी उपोद्धाते|४|रमभिगृहानाः श्रोत्रेन्द्रियमागच्छन्ति, ततः सम्भवत्युपघाता, ननु यदि प्रोत्रेन्द्रियं प्राप्तमेव शब्द गृहाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दरासन्नादितया भेदप्रतीतिरेवं शब्देऽपि न स्यात् , प्राप्तो हि विषयः परिच्छिद्यमानः नां सृष्टा॥२७॥ स्पृष्टतादि IVसर्वोऽपि सन्निहित एव तत्कथं तत्र दरासन्नादिभेदप्रतीतिर्भवितुमर्हति, अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा |च लोके वक्तारः-श्रूयते कस्यापि दूरे शब्द इति, अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि है शब्दः श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते इति श्रोत्रस्य चाण्डालरपर्शदोषः, तन्न श्रेयसी श्रोत्रेन्द्रियस्य प्राप्तकारिता, तदेतन्महा-द मोहमलीमसमानसभाषितं, यतो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथापि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे |M शब्देऽपि स्वभाववैचित्र्यसम्भवात् दूरासन्नादिभेदप्रतीतिरुल्लसिष्यति, तथाहि-दूरादागतः शब्दः क्षीणशक्तिकत्वात् खिन्न इव लक्ष्यते, अस्पष्टरूपो वा, ततो लोके व्यवहारो दूरे शब्दः श्रूयते इति, अस्य वाक्यस्यायं भावार्थः-दूरादागतः श्रूयते इति, स्यादेतद्-एवमतिप्रसङ्गः प्राप्नोति, तथाहि-एतदपि वक्तुं शक्यते, दूरे रूपमुलभ्यते, किमुक्कं भवति?-दूरादागतं रूप. मुपलभ्यत इति, ततश्चक्षुरपि प्राप्यकारीति प्राप्नोति, न चैतदिष्यते तस्मान्न तत्समीचीनमिति, तदयुक्तं, यत इह चक्षुषो| रूपकृतावुपग्रहोपघातौ नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृत उपधात उपलम्भगोचरोऽस्ति, यथोक्तं प्राक्, ततो नातिप्रसङ्गापादनं युक्तिमत्, अन्यच्च प्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवर्मनि ॥२७॥ पुनरवतिष्ठमानो दूरदेशस्थितोऽपि शृणोति, तथा च लोके वक्तारो-न वयं प्रत्यासमा अपि त्वदीयं शब्दं शृणुमः, पवनस्य प्रतिकूलमवस्थानाव, यदि पुनरमातमेव शब्द रूपमिव जनाः प्रमिणीयुस्तर्हि पवनस्य प्रतिकूलमप्यवतिष्ठमाना रूपमिव SCHOSESSESS in Education Internaton For Private & Personal use only Howw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy