SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ AC%C4%AGRAASAGAR तदावरणकर्मक्षयोपशमाख्या संस्कारापरपर्याया, अत एव स्मृतिधारणाया बीजभूता सङ्ख्येयवर्षायुषां सत्त्वानां सोयं अस क्येयवर्षायुषां च पल्योपमादिजीविनामसङ्ख्येयमिति, उक्तं च-"त (अ) त्थोग्गहो जहण्णो समओ सेसोग्गहादयो वीसुं । है अंतोमुहुत्तमेगं तु वासणा धारणं मोत्तुं ॥१॥” (वि०३३४) तदेवमवग्रहादीनां कालमानमभिधाय सम्प्रति श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयतां प्रतिपिपादयिषुराह पुढे सुणेइ सई रूवं पुण पासई अपुढं तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥५॥ | ननु व्यञ्जनावग्रहप्ररूपणाद्वारेणैव तथा श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्त विषयता प्राक् प्रतिपादिता ततः किमर्थमेषः पुनः प्रयास इति ?, उच्यते, तत्र प्रक्रान्तगाथा व्याख्यानद्वारेण प्रतिपादिता, सम्प्रति तु सूत्रतः प्रतिपाद्यत इत्यदोषः, श्रोत्रेन्द्रिय कर्तृ शब्दं कर्मतापन्नं शृणोति-गृह्णाति परिच्छिनत्तीति भावः, स्पृष्टं तनौ रेणुवत् आलिङ्गितमात्रं, किमुक्त भवति ?-शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माणि, अत एव द्रव्येन्द्रियस्यान्तरपि मनाक् प्रविशन्ति, तदन्यद्रव्यवासनस्वभावानि च, श्रोत्रेन्द्रियं शेषेन्द्रियगणापेक्षया प्रायः पटुतरं, ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृह्णाति, एतेन । यदाहुः सुगतमतानुसारिणः-श्रोत्रमप्यप्राप्तकारि, तथा च तद्ग्रन्थः “चक्षुःश्रोत्रमनोऽप्राप्यकारी"ति, ते प्रतिक्षिप्ता द्रष्टव्याः, तथाहि-अप्राप्यकारि तत् प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावो, यथा चक्षुमनसी, श्रीवस्य च | शब्दकृत उपघातो दृश्यते, सद्योजातवालकस्य समीपे महाप्रयत्नताडितझल्लरीझात्कारश्रवणतो यद्वा विद्युत्प्रपाते, तत्पर त्यासन्नदेशवर्तिनां निर्घोषश्रवणतो बधिरीभावदर्शनात, शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य जउतरङ्गन्यायेन प्रस-12 Jain Education in For Private & Personal use only hwjainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy